पृष्ठम्:न्यायलीलावती.djvu/४६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८७
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न चेदमिदं [१] नेदमिहेति विलक्षणबोधवेद्यत्वात् । विद्यमानस्यैव


न्यायलीलावतीकण्ठाभरणम्

न्तरमाह—विद्यमानस्यैवेति । संयोगस्य एकत्र एकदैव पुरुषेणोपलम्भा-

न्यायलीलावतीप्रकाशः

मिति । नेदमिति । यद्य ( प्या ? ) पादा ( द ? ) ने बाधितत्वमनुकूलमेव तथापि प्रतियोगिसमानदेशकालत्वेनात्यन्ताभावस्यान्योन्याभावत्वापादा ( द ? ) ने व्याप्यवृत्तित्वमुपाधिरित्यर्थः । वस्तुतः प्रतियोगितावच्छेदकधर्ममारोप्य [२] यत्र निषेधधीः, सोऽन्योन्याभावो यत्र तु प्रतियोगिनमारोपय तदवगमः सोऽत्यन्ताभाव इत्यादि न्यायद्वितीयाध्याय निबन्धप्रकाशे व्युत्पादितमस्माभिस्तत्रैव तदनुसन्धेयम् ।

न्यायलीलावतीप्रकाशविवृतिः

त्यादिकमित्यर्थः । यद्यप्यापादन इति । यद्यप्यापाद्यबाधो व्यतिरेके पक्षधर्मतासम्पादकतया तत्र तर्केऽणु ( नु ? ) गुणो यत्र तन्मूलभूतव्याप्त्यावरोधी यथा निर्धूमत्वबाघः, न तु तद्विरोध्यपि केवलपक्षधर्मतायाः पण्डत्वात् । प्रकृते चान्योन्याभावत्वाभावग्राहकेण प्रत्यक्षेण स्वप्रतियोगिसमानदेशकालत्वस्यापि विषयीकरणाद्वाघोऽयं व्यभिचारपर्यवसिततया व्याप्तिविरोध्येवेति नानुगुणस्तथापि व्यभिचारव्यापकोपाधिविरहे व्यभिचार एव न स्यादिति बाधाननुगुणताप्रयोजकव्यभिचारनिर्वाहाय उपाधिरेवाक्केः । वस्तुतः सत्तर्के सर्वत्र बाधोऽनुगुण एव मूलभूतव्याप्तिविरहहेतुस्तर्क्काभास एवेति वस्तुगतिस्तथा चान्यसत्तर्कत्वे बाघोऽनुगुणो भवेदिति तर्काभासताप्रतिपादनायोपाधिरुपन्यस्तं इति रहस्यम् ।

 ननु स्वप्रतियोगिसमानदेश कालत्व मेवान्योन्याभावलक्षणं तत्रास्त्येवेति व्याप्यवृत्तित्वोपाघेरप्रयोजकत्वमित्यत आह -वस्तुत इति । तथा च नोकं तल्लक्षणमपि त्विदानीयुज्य ( मुच्य ? ) मानमिति भावः । प्रतियोगितावच्छेदकमिति । नन्वन्योन्याभावस्थलेऽपि प्रतियोग्येवारोप्यः, अन्यथा आरोग्य निषिध्यत इति सिद्धान्तव्यकोपात् । इयांस्तु विशेषो यदेकत्र तादात्म्येन प्रतियोग्यारोप्योऽपरत्र संयोगादिना संसर्गेणेति चेन्न, तादात्म्येन प्रतियोगिनमारोप्य संयोगा-


  1. नेव्ययमिदं ।
  2. प्रतियोगितावच्छेदकमारोध्येति विवृतिसम्मतः पाठः ।