पृष्ठम्:न्यायलीलावती.djvu/४६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८८
न्यायलीलावती


वा संयोगस्योपलम्भानुपलम्भावव्याप्यवृत्तित्वम् । ननु किं देशभेदेनोपलम्भानुपलम्भौ कालभेदेन पुरुषभेदेन वा । नाद्यः । अभि-

न्यायलीलावतीकण्ठाभरणम्

नुपलम्भावेवाव्याप्यवृत्तित्वमित्यर्थः । एतदेव विकल्प्य निष्टङ्कयति-- नन्विति । अभिन्नदेशत्वात् यत्रैव देशे कपिसंयोग उपलभ्यते तत्रैव नोप-

न्यायलीलावतीप्रकाशः

 नन्ववच्छेदकस्यावयविनोऽर्थान्तरत्वे तत्र संयोगस्य वृत्त्यवृत्तिभ्यामवयविनि वृत्त्यवृत्तिविरोधेन कश्चिदुपयोगोऽनर्थान्तरत्वे च तदवयव एव तयोर्विरोध: । अत्राहुः । संयोगस्यावयविनि समवायेऽ व्यवयवावच्छेदप्रतीतिबलात् कस्मिंश्चिद्वयवे तस्याधारताऽस्ति न तु सर्वत्रेत्यव्याप्यवृत्तित्वार्थः । यद्वाऽवयवसंयोग एवोपलभ्यमानेऽवयविनि संयोग उपलभ्यते । यत्र त्ववयवे संयोगाभावस्तस्मिन्नुपलभ्यमानेऽव्यवयविनि स नोपलभ्यत इत्यव्याप्यवृत्तित्वार्थः । अथ वा पूर्वापरितोषेणाह--विद्यमानस्यैवेति । अभिन्न देशत्वादिति । संयोगतदत्य-

न्यायलीलावतीप्रकाशविवृतिः

दिति च क्रमेण तदुभयनिर्वचनात् । न चैवं सम्प्रदायमताभेदः । तत्र हि संसर्गादेरारोप्यत्वमित्युक्तम् । तच्चायुक्तम् । विशेषणस्यैवारोप्यत्वा दिहेतुसंसर्गादेरोराप्य सम्बन्धत्वमित्यभिधानाव । प्रतीतिविशेषजन्यत्व मवच्छेद रूपापरिचये दुर्ग्रहं तत्परिचयश्च प्रतीति विषयविशेषाप्रतीतावशक्य इति वाच्यम्, अभावाभावत्वतदत्यन्ताभावत्वयोरेव विषयतानवच्छेदीकभूयावच्छेदकत्वात् । न च तदेव लक्षणमस्तु एतस्याप्यदुष्टत्वात् । वस्तुतः स्वरूपसम्बन्धविशेष एवानुभवसाक्षिकस्तयोर्भेदक इत्यभावविशेष एव विषयीभूयावच्छेदकः । अत एव धर्मात्यन्ताभावधर्म्यन्योन्याभावयोर्द्वयोरभेद एव । घटत्वस्य पटा (घटत्वा ?) त्यन्ताभावात्यन्ताभावात्मकतया घटान्योन्यामावस्यापि घटत्वात्यन्ताभावात्मकत्वात् परस्परविरहरूपताया अत्यन्ताभावस्थले दृष्टत्वादिति मतमपास्तम् । प्रतीतिवैचित्र्येण भेदादित्यन्यत्र विस्तरः ।

 अवयविन इति पञ्चम्यन्तम् । बिरोधोपनीहारे ( 'विरोधे' विरोधपरीहार ?) 'समवायेऽपि' व्याप्त्या समवायेऽपीत्यर्थः । आधारतास्तीति । अवच्छेदकतासम्बन्धेनेति शेषः । यत्र विति । तस्मिस्तूपलभ्य