पृष्ठम्:न्यायलीलावती.djvu/४६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८९
ब्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता

न्नदेशत्वात् । नापरौ । रूपादीनामव्याप्यवृत्तित्वापत्तेः । देशकालपुरुषाभेदेन पुनरेकस्य वस्तुन उपलम्भानुपलम्भौ विरोधादेवानुपपन्नौ । मैवम् । एकदा तावदुपलम्भानुपलम्भौ भिन्नेष्वेवावयवेषु न त्ववयविनि । अत एव विरोधात्कालभेदेन


न्यायलीलावतीकण्ठाभरणम्

लभ्येतापीत्यर्थः । कालभेदपुरुषमेदास्त्रामुपलम्भानुपलभ्भौ रूपदिसा धारणाविति तेषामव्याप्यवृत्तित्वं स्यादित्याह – रूपादीनामिति । एकदेति । भिन्नभिन्नावच्छेदेन उपलम्भानुपलम्भावेकदाऽपीत्यर्थः । भिन्नेष्वेवावयवेष्विति । भिन्नावयवावच्छेदेनैवेत्यर्थः । न त्ववयविनीति । न त्वनवच्छि न्न एवावयविनीत्यर्थः । अत एवेति । न हि समानविषययोरुपलम्भानुपलम्भयोरेकत्रावयविनि एकदा सम्भव इत्यर्थः । नन्विन्द्रियसंयुक्ते रक्ते पटे कालान्तरेऽपि संयोगानुपलम्भः कथं स्यादित्यत आह -काल-

न्यायलीलावतीप्रकाशः

न्ताभावयोर्भिन्नदेशत्वे तु व्याप्यवृत्तिरूपादितुल्यत्वम् । अथैकत्र देशेऽवच्छेददेशभेदेन भिन्नदेशत्वं तदा प्रागुकपक्षाभ्युपगम इति भावः । एकदेति । यद्यप्येतद्व्याप्यवृत्तिरूपादिसाधारणं देशभेदेन तत्राप्युपलम्भानुपलम्भात् तथापि यज्जातीयं किञ्चिदवयव निष्ठतयोपलभ्यमानं सत्किञ्चिद्योग्यावयवनिष्टतयाऽनुपलभ्यमानमवयविवृत्ति तज्ज्ञातीयमव्याप्यवृत्तीति सम्प्रदायः [१] । 'अत एव' पूर्वोक्ता देवेत्यर्थः । काळ-

न्यायलीलावतीप्रकाश विवृतिः

मानोऽपि नोपपद्यत इत्यर्थः । वस्तुतोऽवच्छेकस्यार्थान्तरत्वेऽपि तदवच्छेदेन भावाभावयोरभावबलाद्विरोध एव नेति पूर्वोक्कमव्याप्यवृत्तित्वमुपपद्यत इत्येव रहस्यम्। (अवयविसंयोगग्रहस्य ?) अवयवसंयोगग्रहनियमे त्रसरेणुसंयोगो न प्रत्यक्षः स्यादित्यरुचेराह --- अथेति । यद्यप्येतदिति । न हि या रूपव्यक्तिरेकतन्तौ सेवापरतन्तावपीति भावः । अतीन्द्रियसंयोगसाधारण्यार्थमाह --- यज्जातीयमिति । चित्राचित्रतन्त्वारब्धे पटे विद्यमानं चित्रं रूपम् । न च तज्जातीय मव्याप्यवृत्तीति व्यवहियत इत्यपरितोषादाह सम्प्रदायविद् इति । तज्जातीयमिति । न चेदं रूपादावतिप्रसक्तं किञ्चिदवयववू-


  1. सम्प्रदायविद इति विवृतिसम्मतः पाठ ।