पृष्ठम्:न्यायलीलावती.djvu/४६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
न्यायलीलावती

तु संयोगानुपलम्भः । तन्निरूपकस्य महारजनादे: संयोगिनोऽनिरूपणात् । कुतः पुनः पटनिरूपणेऽपि महारजनाद्यनिरूपणम् । पटस्य भूरिदेशव्यापकत्वेनानावृतत्वेनेन्द्रिय सन्निकर्षेऽपि महारजनादेरिन्द्रियासन्निकर्षात् । कुतस्तर्हि पटोऽरक्त इति प्रतीतिरिति चेत् न कुतश्चित् । न हि यत्र संयोगः प्रतीयते, तत्रैव तदैव तदभाव: प्रत्येतुं शक्यते [१] । पटोऽरक्त इति व्यपदेशस्तर्हि कथम् । अवयववर्तिना रागाभावेन परम्परासम्ब


न्यायलीलावतीकण्ठाभरणम्

भेदेन त्विति । रक्तभागस्यारक्तभागेन तिरोधानादनुपलम्भ इति समुदायार्थः । अवयविन्युपलभ्यमानेऽपि यज्जतीयमवयविग्राहकेन्द्रियग्राह्यं सन्नोपलभ्यते तज्जातीयमव्याप्यवृत्तीति भावः ।

 ननु महारजनसंयोगाभावश्चेन्न पटनिष्ठस्तदा पटोऽरक्त इति कथमर्द्धरक्ते पटे स्यादित्याह- कुत इति । पटे महारजनसंयोगाभावाभावेऽपि तवयववृत्तिना संयोगाभावेन परम्परासम्बन्धेन प्रती-

न्यायलीलावतीप्रकाशः

भेदेन त्विति । आवृत्तरक्तार्द्धभागेऽवयविनि महारजनादेशवृत्तित्वेन तत्संयोगस्यानुपलम्भ इत्यर्थः । यज्जातीयावयविन्युपलभ्यमानकालान्तरे आश्रयान्तरस्येन्द्रियासन्निकर्षान्नोपलभ्यते तजातीयमव्याप्यवृत्ति, रूपादि तु नैवमिति भावः । इन्द्रिया सन्निकर्षादित्यत्रा वृत्तत्वेनेति शेषः । कुतस्तीति । अर्धरक्ताभिप्राये द्रष्टव्यम् । न हीति । किन्तु तदवयवेष्विति शेषः । पटोडरक्त इति । पटे महारजनसंयोगा. भावादित्यर्थः । अवयववर्त्तिनेति । एतच्चाभ्युपगमवादः । वस्तुतस्तु रक्तः पट एव नास्ति किन्त्वत्र प्रदेशे न रक्त इति । तथा चावयवेष्ववय-

न्यायलीलावती प्रकाशविवृतिः

त्तित्वे सति किञ्चिदवयवावृत्तित्वस्य विशेषणत्वेऽपि चित्राचित्रावयवारब्धपटनिष्ठचित्ररूपेऽपि प्रसक्तमिति वाच्यम्, आश्रयान्तरस्येत्यत्र एकस्वाश्रयभिन्नस्वाश्रयस्येत्यर्थात् । न च चित्ररूपं तथाऽव्यासज्यवृत्तित्वात् ।


  1. प्रत्येतुं न शक्यते ।