पृष्ठम्:न्यायलीलावती.djvu/४६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३११
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशाद्भासिता


न्धेन तद्व्यपदेशात् । न चावयवसंयोगेनैव संयुक्तप्रत्ययोपपत्तौ संयोगोऽप्यवयावनि नास्तीति वाच्यम्, सर्वत्रावविनि संयोगोच्छेदे संयुक्त प्रत्ययस्यैवोच्छेदप्रसङ्गात् । कारणसंयोगस्य कार्य-


न्यायलीलावतीकण्ठाभरणम्

तिरियमुपपद्यत इत्यर्थः । ननु संयोगोऽवयविनि न स्यादित्याह---- न चेति । संयोगस्यावयवमात्रविश्रान्तताकल्पने तस्य परमाणुवृत्तितापत्तावतीन्द्रियत्वं स्यात्तथा च तदभावो न गृह्येतेति प्रतियोग्यनुपलम्भादित्याह – सर्वत्रेति । किञ्च परमाणुपर्थ्यन्तं संयोगस्य स्वीकारेऽपि पुनरवयविपर्थ्यन्तं संयोगः स्यादेवत्याह- कारणेति । ननु संयोगाभावेऽपि रीतिरियं तुल्यैव अवयवसंयोगिनाऽप्यवयविनोऽसंयोगादिति चेन्न, संयोगासिद्धौ तदभावस्याऽध्यसिद्धेः । सिद्धौ वोक्त्तप्रकाराभ्यामेव प्रतीत्युपपत्तेरिति भावः । अवयववृत्तिना स्वाभावेन अवयविनि सादेक्ष्यव्यपदेशविषयत्वं संयोगस्याव्याप्यवृत्ति-

न्यायलीलावतीप्रकाशः

वसंयोगाभावः प्रतीयते न त्ववयविनि । सर्वत्रेति । सर्वत्रावयविन्यवयवसंयोगेनान्यथासिद्धौ परमाणुवृत्तिसंयोगस्यातीन्द्रियत्वात सर्वत्र संयोगसाक्षात्काराभावप्रसङ्ग इत्यर्थः । न च त्रसरेणोरवयवावच्छेदाग्रहात्तत्र न तदवच्छेदेना न्यथासिद्धिः, तत्रापि दिगुपाधेरेवावच्छेदकत्वसम्भवात् । कारणसंयोगस्येति । तत्रापि परमाणुमात्रेऽपि संयोगाभ्युपगमे ऽवश्यमवयविनि संयोग इति भावः । यद्यपि कारणासंयोगिनाऽवश्यं कार्यासंयुक्तेन भवितव्यम्, इत्यपि नियम एव । तथापि संयोगसाधने यदि कारणसंयोगिना न कार्य संयुज्येत तदा कार्यकारणयोर्मिथो युतसिद्धि प्रसङ्गोऽनूकूलस्तर्कः । न च संयोगाभाव-

न्यायलीलावतीप्रकाशविवृतिः

 केचित्तु अवच्छेदभेदेन भावाभावयोरविरोध एवेति पूर्वोक्त्त एव सर्वतात्पर्यमिति वदन्ति । तत्रापि दिगिति । उपहिताया दिश इत्यर्थः । उपाधेः सूर्यसंयोगात्मकतया तत्र संयोगाभावात् । यद्यपि दिशोऽप्यतीन्द्रियस्वमिति तद्दोषतादवस्थ्यं तथाप्यालोकस्थस्यैव त्रसरेणोर्ग्रहात्तस्यैवावच्छेदकत्वमिति