पृष्ठम्:न्यायलीलावती.djvu/४६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९२
न्यायलीलावती


संयोगोपार्जननियमाच्च। तस्मादवयववर्तिना संयोगाभावेनावयविनि संयोगस्य सादेश्यव्यपदेशविषयत्वमेवाव्याप्यवृत्तित्वम् ।

 नन्वेवं देशान्तरोच्चरितस्यापि शब्दस्येहस्थेन ग्रहणं स्यात् । न । एतच्छ्रोत्रेण तस्याप्राप्तेः । कर्णशष्कुलीतत्संयोगयोरेकतरस्य श्रोत्रत्वे अत्रोच्चारितस्यापि शब्दस्याग्रहणम् । ताभ्याम-


न्यायलीलावतीकण्ठाभरणम्

त्वमिति पक्षान्तरमुपसंहार व्याजेनाह - तस्मादिति । शब्दबुद्ध्यादीनां स्वाभावसादेश्यमेवाव्याप्यवृत्तित्वमित्यवसेयम् ।

 ननु संयोगश्चेद् व्याप्यवृत्तिरेव तदा क्वचिदभिहतायां भेर्य्यां सर्वत्र शब्दोपलम्भः स्यात् विभुकार्थ्याणामसमवायिकारणावच्छेनोत्पादादित्याह - नन्विति । गूढाभिसन्धिराह- एतदिति । ताभ्यामिति । समवाय प्रत्यासत्त्या शब्दग्रहस्तयोः शब्दसमवायाभावादित्यर्थः । आश-

न्यायलीलावतीप्रकाशः

साधनेऽपि तयोर्युतसिघ्घापत्तिस्तर्कस्तर्हि सर्वथाऽवयविनि संयोगाभावादव्या प्यवृत्तित्वविरोधात् । उपसंहारव्याजेनाव्याप्यवृत्तितायां परिभाषान्तरमाह - तस्मादिति ।

 नन्वेवमिति । शब्दासमवायिकारणस्य भेर्याकाशसंयोगस्य व्याव्यवृत्तित्वाद्विभुविशेषगुणानां चासमवायिकारणावच्छिन्नेऽवश्यमुत्पन्ने देशान्तरीयशब्दस्य देशान्तरस्थेन पुरुषेण ग्रहप्रसङ्ग इत्यर्थः । एतच्छ्रोत्रेणेति । श्रोत्रस्य च प्राप्यकारित्वादित्यर्थः । ताभ्यामिति ।

न्यायलीलावतीप्रकाशविवृतिः

तात्पर्यम् । तर्हीति । यदि यत्किञ्चित्कारणसंयोगिना कार्य न संयुज्यत इति मतं तदाऽवयविनि संयोगो न स्यादेवेत्यव्याप्यवृत्तिताऽनुभवो विरुध्येत सकलकारणासंयोगः (गि ? ) नाच कार्यासंयोग इष्ट एवे ( ति ? ) भावः । यद्यपि यत्किञ्चित्कारणासंयोगिना कार्यासंयोगनियमेऽपि सकलकारणसंयोग्याकाशादिना संयोगोऽविरुद्ध एव तथाप्यङ्गुलीसंयुक्ते वृक्षे शरीरसंयोगानुभवो विरुध्येतेति तात्पर्यम् । उपसंहारव्याज़ेनेति । कचित्तु ईश्वर विशेषगुणभिन्नत्वे सति मूर्त्तवृत्येकवृत्यवृत्तिगुणत्व साक्षाद्ध्यायजाति मत्वमेवाव्याप्य-