पृष्ठम्:न्यायलीलावती.djvu/४६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


सम्बन्धात् । नभसस्तु श्रोत्रत्वे तस्यापि ग्रहणम्, श्रोत्रप्राप्तेरविशेषादिति चेत्, न, एतदेशवासिपुरुषं प्रति विशिष्टादृष्टप्रसूतकर्णशष्‍कुलीभेदस्य तत्संयोगभेदस्य वा शब्दविशेषोपलम्भ एव सहकारित्वाभ्युपगमात् । सैव तर्हि कर्णशष्कुली अत्र स्थित-


न्यायलीलावतीकण्ठाभरणम्

यमुद्घाटयति - एतद्देशेति । विशिष्टादृष्टोपगृहीत कर्णश ष्कुल्यवच्छिन्ननभोभागस्य श्रोत्रत्वं तदवच्छिन्न एव देशे यः शब्द उत्पद्यते स गृह्यते नान्यः शब्दासमवायिकारणसंयोगस्य व्याप्यवृत्तित्वेन शब्द एव नियतदेशे कथमिति चेत्, असमवायिकारणसत्त्वेऽपि निमित्त वाय्ववच्छेदेन तदुपपत्तेः शब्दोपलम्भानुपलम्भनैयत्येन तथैव कल्पनात् । गच्छन् वायुः स्वदेशे शब्दमुत्पादयति । अत एव कोष्ठ्यस्य वायोरेवाधः कण्ठादिदेशसंयोगात कण्ठ्यादिवर्णनिष्पत्तिः । सैवेति । देशान्तरोत्पन्नशब्द सन्निति (संविति?) तत् पुरुष-

न्यायलीलावतीप्रकाशः

कर्णशष्कुलीतत्संयोगाभ्यामित्यर्थः । शब्दस्य च तदसमवेतत्वात् । समवायेन शब्दग्रहणादिति भावः । नभसोऽपि श्रोत्रत्वेऽपि निमित्तवैचित्र्यान सर्वशब्दोपलम्भप्रसङ्ग इत्याह - एतद्देशेति । शब्दविशेषोपल- म्भ इति । सन्निधानोञ्चरित शब्दविशेषोपलम्भ इत्यर्थः । एतच्चाव इयं वाच्यमन्यथा संयोगस्याव्याप्यवृत्तित्वेऽपि प्रत्यासत्तिसत्त्वात्स र्वशब्दग्रहप्रसङ्ग इत्यर्थः । न च कर्णशष्‍कुल्यवच्छेदेन देशान्तरो च्चारितशब्दस्य नोत्पत्तिरिति वाच्यम्, अवच्छेदो ह्याकाशा. द्भिनमभिन्नं वा । आद्ये न तत्र शब्दसमवायः । अन्त्ये न कश्चिद् विशेषः । इत्याहुः । वस्तुतो यदवच्छेदेन कर्णशष्‍कुलीसंयोग आकाशे तत्परिचिततत्संयोगात्तदवच्छेदकानवच्छिन्न आकाशः श्रोत्रं तत्समवेतः शब्दो गृह्यते । अथ चा कर्णशष्कुली संयोगावच्छेदकावच्छिन्ने आकाशे वर्त्तमानः शब्दो गृह्यते । तस्यावच्छेदकतया देशोऽधिकरणं समवायित्वेनाकाशः । तथा च कर्णशष्कुलीसंयोगावच्छेदकदेशवृत्तिः शब्दो गृह्यते, न तदनवच्छेदकदेशवृत्तिरिति वय (म् ? ) । सैवेति । देशान्तरस्थितैवेत्यर्थः ।

न्यायलीलावतीप्रकाशविवृतिः

वृत्तित्वमित्याहुः । वस्तुत इति । यद्यपि संयोगस्य व्या ( प्य ? ) वृत्ति-