पृष्ठम्:न्यायलीलावती.djvu/४६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९४
न्यायलीलावती


पुरुषस्य तच्छब्दोपलम्भे सहकारिभूताऽस्त्विति चेत्, न, तस्या एतत्पुरुषादृष्टानुपगृहीतत्वादिति मृकीभव । [इति] संयोगः ।

 विभाग: संयोगमध्वंसोऽस्त्विति चेत्, न, संयोगवदुक्तो-


न्यायलीलावतीकण्ठाभरणम्

कर्णशष्‍कुलीत्यर्थः । तस्या इति । परकीयकर्णशष्कुल्याः परकीयाहष्टाघटितत्वादित्यर्थः ।

 स्वजनककर्म्मोत्पस्यव्यवहितोनरक्षणोतपत्तिरवृत्तिगुणत्वसाक्षाद्याव्यजातित्वं विभागत्वमिति लक्षणम् । संयोगत्वं द्विष्टमात्रवृत्तिगुणत्वसाक्षाद्वयाप्यजातिभिन्नं जातित्वात् गोत्ववत् प्रमेयत्वाद्वा घटवदिति प्रमाणं विभागे स्फुटमिति संक्षेपतस्तन्निरूपयितुं पूर्व्वपक्षयति -- विभाग इति । संयोगात्यन्ताभावान्योऽन्याभावावतिप्रसक्त्तविति संयोगध्वंस इत्युक्तम् । संयोगवदिति । यथा सन्नित्यबाधित-

न्यायलीलावतीप्रकाशः

तस्या इति । अदृष्टोपग्रहश्च कर्णशरकुल्या ( म ? ) वश्यमन्यथा रोगा दिकं विना वाधिर्यानुपपत्तेरिति भावः ।

 यदि संयोगाभावं ( वो?) विभाग: स्यात्तदा गुणादावपि विभ क्तधी: स्यात्तदुक्तं संयोगप्रध्वंस इति । विभागस्योत्तरदेश संयोगनाश्यतया क्षणत्रयमात्र स्थायित्वात्तदुत्तरक्षणे विभक्त प्रतीतेः संयोगध्वंसावलम्बनत्वेन त्वयाऽप्यनुमतत्वादिति भावः । स च यद्यप्येकस्मिन् संयोगे नष्टे संयोगान्तरसत्त्वेऽप्यस्ति यावदुत्पन्न संयोगध्वं सक्ष्चैकमात्रसंयोगनाशे न सम्भवति तथापि संयोगसमानकालीन संयोगध्वंस उत्पन्न संयोगत्वावच्छिन्न संयोगप्रतियोगिको ध्वंसो वा विभागः । न त्वेवमेकतरसंयोगिनाशेऽपि एकस्मिँस्तत्र विभक्तधीः स्यात्तत्रापि संयोग नाशात् । न च द्वौ संयोगिनौ नष्टसंयोगौ विभक्तधीविषयः प्रमेयाधि-

न्यायलीलावतीप्रकाशविवृतिः

त्वे आकाशमेव तत्परिचितम्, असमवायिकारणानुरोधाच्च सर्वशब्दस्यापि व्याप्यवृत्तित्वमतः सर्वशब्दोपलम्भस्तदवस्थ एवेति प्रकारद्वयमध्येतदयुक्तम् । तथापि पुर्वोक्तरीत्या शब्दस्याव्याप्यवृत्तित्वमेव व्याव्यवृत्तिताभिधानं चैकदेशिमतेनेति तात्पर्य्यम् ।

 उत्पन्नेति । उत्पन्नतदुभयप्रतियोगिक संयोगत्वावच्छिन्नध्वंस इत्य-