पृष्ठम्:न्यायलीलावती.djvu/४६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीकण्ठाभरणम्

प्रत्ययात् संयोगसिद्धिस्तथा विभागस्यापि यथा शब्दासमवायिकारणतया संयोगसिद्धिस्तथा विभागस्यापि सिद्धिरित्यर्थः । किञ्च यदा अवयविकर्म्मणा युगपदेवाङ्गुरीतरुसंयोगहस्त तरुसंयोगशरीरतरुसंयोगा उत्पन्नास्तत्राङ्गुलीमात्रोत्पन्नेन कर्म्मणा अङ्गुरीतरुविभागात् विभागपरम्परयैव हस्ततरुसंयोगपरम्परानाशाय अवश्यं

न्यायलीलावतीप्रकाशः

क्याभावात् । न च द्वित्वमेवाधिकम् । विशेषणद्वित्वैकत्वयोर्विशिष्ट. प्रत्ययाविशेषाद्दण्डी पुरुष इत्यत्र तथा दर्शनात् । मैवम् | स्वप्रतियोग्यधिकरणात्यन्ताभावाप्रतियोगिनो द्रव्यध्वंसाजन्यस्य वा संयोगध्वंसस्य विभक्तप्रत्ययालम्वनत्वात् । प्रमेयाधिक्यसम्भवाद्विभागः । ( स ? ) न्नित्यबाधितबुद्धिवेद्यत्वाच्च शब्दासंयोगाजन्यशब्दासमवायिकारणत्वाच्च । विभागस्य गुणत्वमभिप्रेत्याह - संयोगवदिति ।

न्यायलीलावतीप्रकाशविवृतिः

र्थः । एतच्च सामान्यध्वंसस्वीकारपक्षे तदस्वीकारे तु यावदुत्पन्नतदुभयप्रतियोगिक संयोगध्वंसमादाय तथेति ध्येयम् । यावत्पदं चाशेषपरम् । विशेषणेति । संयोगनाशात्मक विभागस्य तत्र प्रयोजकत्वादाश्रय द्वित्वैकत्वयोरप्रयोजकत्वादिति भावः । न चाश्रयनाराजन्यसंयोगध्वंसस्य कथं नष्टऽत्यन्ताभावः । पूर्वं प्रतियोगिसत्त्वादग्रे चाश्रयस्यैवाभावादत आह - द्रव्येति । यद्यप्येतदुभयमध्ययुक्तं तत्र संयोगिद्वयसत्तायामेव संयोगध्वंसो जातस्तदनन्तरं चैकः संयोगी नष्टस्तत्रापरत्र च विभक्तप्रत्ययतादवस्थात् तथापि यावत्प्रतियोगिस्वाश्रयसमानकालीनयावदुत्पन्न समानाधिकरणसंयोगध्वंसस्य तथात्वे तात्पर्यम् । एतेन द्रव्यपदं प्रतियोग्याश्रयद्रव्यपरमेव वाच्यम् । अन्यथा प्रतिबन्धकद्रव्यध्वंसजन्य संयोगध्वंसस्थलेऽव्याप्तेः । तथा च परमाणुविभागेऽप्रसिद्धिरिति परास्तम् । ननु सद्बुद्धेरेवाबाधितत्वं भावत्वसिद्धिमन्तरेणासिद्धं तत्र हि कश्च हेतुरन्धकारादौ व्यभिचारीत्यरुचेराह - शब्देति । शब्दसंयोगाजन्यं शब्द पक्षीकृत्य गुणासमवायिकारणकत्वं शब्दत्वेन साधनीयामिति भावः । यद्वा शब्दसंयोगाजन्यशब्दासमवायिकारणं पक्षीकृत्य शब्दासमवायिकारणत्वेन