पृष्ठम्:न्यायलीलावती.djvu/४६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

३९६ न्यायलीलावती त्तरत्वात् पल्लवः प्रक्रियायामित्यलम् । इति विभागः (१) । न्यायलीलावतीकण्ठाभरणम् विभागोऽङ्गीकर्त्तव्य इति भावः । अत्र सङ्क्षेपे हेतुमाह - पल्लव इति । न्यायलीलावतीप्रकाशः यत्र संयोगध्वंसानन्तरमाश्रयो नष्टः, तत्राश्रयान्तरव्यङ्गत्वात् ध्वंसधीरस्ति । न चात्र विभक्तप्रत्ययः । यद्वा घटात्पटो विभक्त इत्यादिप्रतीतेने च ध्वंसेनान्यथोपपत्तेः, ध्वंसस्य प्रतियोगिनिरूप्यत्वात्, विभागस्य चावधिनिरूप्यत्वात् । न च संयोगाभाव एव विभागप्रत्ययः कथमन्यथा हिमवद्विन्ध्यौ विभक्ताविति धीरि ति वाच्यम्, विभागपद्स्य नानार्थत्वात् । किञ्च यत्रावयवावयविनोः कर्मणा युगपदेव संयोगो जनितः पश्चाच्चावयवकर्मणा विभागजविभाग: परम्परया संयोगनाशस्तत्र संयोगनाशकतया विभागो मन्तव्यः । तत्र न हि अवयवकर्मणा तन्नाशः, व्यधिकरणत्वात् । नाऽण्यवयवसंयोगनाशेनैवावयविनि संयोगनाशः, अवयवसंयोगनाशस्यावयविसंयोगाजनकत्वादकारणनाशस्याकार्यानाशकत्वादित्यभिसन्धिः । पल्लव इति । सा च प्रक्रिया परिच्छेदे निरूपणीयेति भावः । न्यायलीलावतीप्रकाशविवृतिः गुणत्वमनुमेयम् । शब्दपदं चात्र कर्मणि व्यभिचारवारणायेति तात्पर्यम् । ननु निमित्त कारणत्वेनावश्यं स्वीकृतो वायुसंयोग एवासमवायिकारणमस्तु संयोगजविभागजयोः परस्परं वैजात्यं च सामग्रीवैचि-यादेव । तच्च निमित्तकारणत्वेऽपि विभागस्याक्षतमित्यरुचेराह--- यत्र संयोगेति । इदं च यथाश्रुतमभिप्रेत्य यदि तु यावत्स्वाश्रय समानकालीनो यावदुत्पन्न समानाधिकरण संयोगध्वंसो विभाग इति पूर्वनिरुक्के ग्रन्थस्य तात्पर्य तदा नेदं दूषणमित्यरुचेराह –- यद्वेति । नानार्थत्वे गौरवामित्यरुचेराह - किश्चेति । तथा च प्रामाणिक गौरवमिति भावः । अवयवसंयोगनाशस्य समानाधिकरणतथा नाशकत्वं भवेदत आह - नापीति । अकारणेति । विभागस्य च समानाधिकरणविरोधिगुणत्वेन नाशकत्वासम्भवादिति भावः । ( १ ) व्यामिव्ययं विभागः ।