पृष्ठम्:न्यायलीलावती.djvu/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ३९७ कथं पुनः परत्वापरत्वे । [संयुक्त] संयोगाल्पीयस्त्वभूयस्त्वयोरेव तद्व्यवहारहेतुत्वात् । अनुमेयात्प्रचुरतरातीततपनपरिस्पन्दावच्छे- दादेर्विलक्षणे एव प्रत्यक्ष ( १ ) प्रतिभासिनी प्रत्यक्ष (2) प्रतिभासिनी परत्वापरत्वे | तथाऽन्यत्रानुमान (२) मिति चेन्न, चिरक्षिप्रादेरपि बहिर्भावा- " न्यायलीलावतीकण्ठाभरणम् कथमिति । दिक्कृतपरत्वापरत्वयोरुत्पादार्थ संयुक्तसंयोगभूय स्त्वधीस्त दल्पीयस्त्वधीश्च त्वया निमित्तकारणत्वेनाभ्युपेया। तथा च तत एव तद्वारद्वारा ( तद्व्यवहारोप ? ) पत्तौ किं ताभ्यामित्यर्थः । ननु कालिकपरत्वापरत्ववद् दैशिके अपि स्यातां न हि तत्र * * पिण्डयो: प्रत्यक्ष एवानुभूयमाने परत्वापरत्वे अतीन्द्रियप्रचुरतरा- तीततपन परिस्पन्दावच्छेदेनान्यथा साधयितुं शक्यते इति शङ्कते - अनुमेयेति । तथान्यन्त्रेति । तद्द्दृष्टान्तेन दिक्कते अपि परत्वापरत्वे अनु- मेये इत्यर्थः । दृष्टान्तीभूते परत्वापरत्वे चेदङ्गीकर्त्तव्ये तदा चिरक्षि प्रादिकमपि गुणान्तरमङ्गीक्रियतामित्याह - चिरक्षिप्रादेरिति । तर्हि न्यायलीलावतीप्रकाशः दिक्कृते परत्वापरत्वे आक्षिपति - कथमिति । संयुक्तेति | परत्वापर- खोत्पत्तावपि तद्गोचरापेक्षाबुद्धेर्हेतुत्वेन तस्यावश्यापेक्षणीयत्वादि- ति भावः । कालकृतपरापरव्यवहारस्य परत्वापरत्वव्यवहारहेतुत्वा- तद्दष्टान्तेन दिक्कृतस्यापि तस्य तद्धेतुकत्वं साध्यमिति अभिने- त्य परत्वापरत्वे साधयति — अनुमेयादिति । परापरबुद्धेरध्यक्षायाः सूर्य क्रियाभूयस्त्वादिनाऽतीन्द्रियेणानि वहात्तदर्थमध्यक्षे परत्वापरत्वे स्वी- कार्ये इत्यर्थः । परिस्पन्दावच्छेदादेरिति । आदिपदेनाल्परत सूर्यपरिस्पन्द- स्यापरतो: संग्रहः । अन्यत्रापीति | दिक्कृतपरापरव्यवहारेऽपत्यिर्थः । विप्रतिपन्न प्रति संयुक्त संयोगाल्पीयस्त्वभूयस्त्वातिरिक्तयोः परत्वा- न्यायलीलावतीप्रकाश विवृतिः संयुक्तेत्यप्रिमग्रन्थानुरोधादाह - दिक्कृत इति । एवं सति कालिकप- रत्वादिसाधनमर्थान्तरमत आह - कालकृतेति । ननु प्रत्यक्षसिद्धे दशि- कपरत्वादौ किमित्यनुमानव्यवस्थाप्यत्वमुच्यत इत्यत आह — विप्रतिप- ( १ ) प्रत्ययप्र० । ( २ ) तथाऽन्यत्राप्यनु० |