पृष्ठम्:न्यायलीलावती.djvu/४७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
न्यायलीलावती


पत्तेः । ततः परापरघीरप्यनध्यक्षैवाभ्यासपाटवाद्वायुर्वातीति प्रत्ययवदाभासते ।

 ननु भिन्नदिगवस्थितयोर्योजन तदर्द्धान्तरितत्वे दूरादूरबुद्धावपि परापरव्यवहाराभावेनातिरिक्त निमित्तत्व मस्तु । तत्रापि परापरादिव्यवहारोऽस्तीति चेन्न, मध्यव्यवहार [स्थापि] प्रसङ्गात् । उभयापेक्ष संयुक्त संयोगाल्पीयस्त्वज्ञानजन्यमुभयापेक्षमपर-


न्यायलीलावतीकण्ठाभरणम्

तयोः प्रत्यक्षप्रतिभासः कथमित्यत आह - तत इति । चिरातीततपनपरिस्पन्दावच्छेद एवाभ्यासदशापन्नवलिपलितादिलिङ्गानुमेयस्तदा भासत इत्यर्थः । ननु यदि संयुक्तसंयोगभूयस्त्वाल्पीयस्त्वनिब(न्ध ? ) नश्चेद्दिक्कृतपरापरव्यवहारस्तदा भिन्नदिगवस्थितयोरपि स्यादिति शङ्कत – नन्विति । 'अतिरिक्तनिमित्तत्वं' परत्वापरत्वनिमित्तत्वम् । अत्रेष्टापत्तिमाशङ्कते - तत्रापीति । मध्यताव्यवहारेऽपि इष्टापत्तिमाशङ्क्याह – उभयापेक्षेति । यदेवापरत्वाधिकरणं तत्र मध्य-

न्यायलीलावतीप्रकाशः

परत्वर्योर्व्यवस्थापनमशक्यं प्रत्यक्षसिद्धसंयुक्तसंयोगाल्पीयस्त्वभू यस्त्वाभ्यामेव परत्वापरत्वव्यवहारोपपत्तेरिति भावः कालकृतपरत्वापरत्वगोचरं प्रत्यक्षसिद्धमित्याह - चिरक्षिप्रति । तस्यापि प्रत्यक्षगुणान्तरतापत्तेरित्यर्थः । प्रत्यक्षसिद्धिं स्फुटयति-तत इति । ननु परापरव्यवहारो न संयुक्त संयोगाल्पीयस्त्वभूयस्त्वादिधीहेतुः तत्सत्त्वेऽपि तदभावादित्याह - भिन्नेति । अतिरिक्तेति । तदेव परत्वमपरत्वं चेति भावः । मध्येति । परादिव्यवहारस्य तन्नियतत्वादित्यर्थः । नियममेवोपपादयति – उभयेति । संयुक्त संयोगभूयस्त्वस्याविशेषादि-

न्यायलीलावती प्रकाशविवृतिः

न्नमिति । तथा च विप्रतिपन्नं प्रति प्रत्यक्षत्वमन्यथाशङ्काकलङ्कितत्वेनासाधकामित्यनुमानमुच्यत इति भावः । अशक्यमिति । प्रत्यक्षेणेति शेषः । प्रत्यक्षेति । कालिके तु प्रत्यक्षमेव मानम् । अतीन्द्रियेण ( र ? ) विकर्मणा तदनुपपत्तेरिति भावः । उभयेतीति । ययोरेव यदन्तरालं तदन्यतरापेक्षया अन्यतरावधिकं यदेकत्रापरत्र द्वयं तदेव मध्यत्वमित्यर्थः । ननु पूर्वप्रक्रान्तोपपाद्याभावाद्भवति हीत्यत्रेतिशब्दो व्यर्थ.