पृष्ठम्:न्यायलीलावती.djvu/४७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९९
न्यायलीलावतीकण्ठाभरण- सविवृति प्रकाशोद्भासिता


मेव मध्यता । भवति हि इदमनयोरन्तरालमित्यत्रैकैकावध्यपेक्षयाऽवध्यन्तरे संयुक्तसंयोगभूयस्त्वबुद्धौ सत्यामन्यत्र संयुक्तसंयोगाल्पीयस्त्वमतिः । मैवम् । आर्जवावस्थितेरप्युपयोगात् । भवति हि चतुर्योजनान्तरिता मत्तो वाराणसी, द्वियोजनान्तरितं च क्ष्रुघ्नपुरमित्यनुसन्धाय वाराणसी परा अपरं च श्रुघ्नपुरमिति व्यवहारः । स यदि संयुक्त संयोगाल्पीयस्त्वभूयस्त्वावच्छेदकज्ञाननिबन्धनस्तदा प्रमातर्यपि परापरव्यवहारप्रसङ्गः । ततोऽतिरिक्तपरत्वापरत्वनिबन्धनः । परत्वापरत्वयोरुत्पादनियमः कुत इति चेत्, जनकशक्तिवैचित्र्यात् । यथा भेर्याकाश संयोगस्योभया [१] -


न्यायलीलावतीकण्ठाभरणम्

त्वव्यवहारो दृश्यते तद्यदि विभिन्नदेशयोः संयुक्त संयोगभूयस्त्वाल्पीयस्त्वनिबन्धनः परत्वापरत्वव्यवहारः स्यात्तदाऽपरत्वाश्रयाभिमते मध्यताव्यवहारोऽपि स्यादित्यर्थः । एतदेव हि स्फुटयितुं शब्दवन्तमेव किरणावलीग्रन्थं लिखति — भवति हीति । प्रमा * तः परत्वाश्रयाच्च संयुक्तसंयोगाल्पीयस्त्वमपरत्वाश्रय एव तत्रैव च मध्यताव्यवहार इत्यर्थः । विभिन्नदेशयोः परत्वापरत्वे नोत्पद्येते तत्रार्जवावस्थानाभावादित्याह—आर्ज्जवेति । परत्वापरत्वोत्पत्तिक्रममभिधाय परापादितामन्यथासिद्धिं निरस्यति-— स यदीति । तयोरुत्पत्तावपि कथं नायं प्रसङ्ग इत्याह – परत्वापरत्वयोरिति । समाधत्ते - जनकेति । तत्रैव दृष्टान्तमाह - यथेति । प्रमाभावप्रसङ्गेन किरणावलीकृता यत् समाहतं तन्नेत्याह-

न्यायलीलावतीप्रकाशः

त्यर्थः । आर्जवेति । एकदिगवस्थितेरित्यर्थः । त्वयापि परत्वापरत्वोत्पत्तौ तथैवाव्य (न्व? ) यव्यतिरेकाभ्यां तन्नियामकत्वोपगमादिति भावः । भवति हीति । यथाश्रुतो हि शब्दवानेव ग्रन्थो लिखितः । प्रमातयैपीति । संयोगसंयुक्तभूयस्त्वाल्पीयस्त्वस्याविशेषादित्यर्थः । जनकेति । अयं

न्यायलीलावतीप्रकाशाविवृतिः

इत्यत आह -- यथाश्रुत इति । किरणावल्यां पूर्वप्रक्रान्तसत्त्वात हिशब्दो


  1. व्याश्रयत्वेऽपि न० ।व्याश्रितत्वेऽपि न० ।