पृष्ठम्:न्यायलीलावती.djvu/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४०१ अत्रोच्यते । किं पुनः संयोगस्य भूयस्त्वमल्पत्वं च कि परिमाणविशेष: संख्याभेदावच्छेदो वा । इयमपि न । गुणानां गुणसंसर्गायोगात् । आरोपिता संख्येति चेत्, न, द्वित्वत्रित्वादेर्व्याभिचारात् । कचिद्वित्वं कचित्रित्वादिकमिति चेत्, न, अनुवृत्तपरव्यवहारावेरहापत्तेः एकत्र चतुष्ने त्रि- " न्यायलीलावतीकण्ठाभरणम् Ag रुप्यत्वोपपत्तेरित्यर्थः । किरणावलीकारमतं दूषयित्वा स्वमतेनान्य. थासिद्धि निरम्यति - किं पुनरिति । परश्वापरत्वे गुणे विहाय संयुक्तसं योगाल्पीयस्त्वभूयस्त्वे एव निर्वक्तुमशक्ये इति भावः । तदेव स्फोर- यति - किमिति । संयोगे पारमार्थिकसंख्याभावेऽप्यारोपिताऽस्त्वित्याह- आरोपितेति । द्वित्वनिबन्धना चेत्तदा तच्छ्रन्ये न स्यादिति व्यभिचा रमाह - द्वित्वेति । तथा सत्यननुगममाह - नेति । दूषणान्तरमाह - एक- न्यायलीलावतीप्रकाशः स्य निरवधित्वेऽपि तद्भूयस्त्वादेरवधित्वनिरूप्यत्वात् सावधित्वेन धीरुपप नेत्याह-संयोगस्य भूयस्त्वेति । गुणानामिति । संख्याया गुणत्वव्यव स्थापनादिति भावः । आरोपितेति । यथा चतुर्विंशतिर्गुणा इत्यर्थः । द्वित्वत्रित्वादेरिति । न चानेकवृत्तिसंख्यात्वेनानुगमः | अविचित्रेण वि. चित्रपरापरव्यवहारानापत्तेः । अवान्तरबैजात्यस्याभावात् । एकत्र च तुष्व इति । ननु या संख्या यत्संख्यासमानाधिकरणात्यन्ताभावाप्रति. यांगिनी सती च तदत्यन्ताभाव समानाधिकरणा सा तदपेक्षया परा, या च यत्समानाधिकरणात्यन्ताभावप्रतियोगिनी सती यदत्यन्ताभा- न्यायलीलावतीप्रकाशविवृतिः धिकरण त्वेनेत्यर्थः । प्रमातुरिति । शरीरस्येत्यर्थः । या संख्येति । व्यधि करणयोरपि त्रित्वयोः परस्परं परव्यवहारापत्तेः प्रथमप्रतीकम् । ता. बन्मात्रे चाभेदेऽपि परत्वं स्यादित्युत्तरप्रतीकम् । एवञ्चापिव्यत्यासे न दलयोः प्रयोजनम् । यद्यपि प्रथमे द्वितीयस्य द्वितीये प्रथमस्थ वि शेषस्य गुरुतरत्वं भेदमात्रगर्भतयैव सङ्गतेः, तथापि परापरध्यव. हारौपयिकमिदमिति गौरवमव्यकिञ्चित्करम् | मीमांसकानां ज्ञान- त्वस्य प्रमालक्षणत्वेऽपि याथार्थ्यविशेषणगौरववदिति भावः । ननु ५१ न्या०