पृष्ठम्:न्यायलीलावती.djvu/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशांद्भासिता ४०३ प्रथमपञ्चद्भावस्यैवासिद्धः । पराचीनापराचीनापेक्षाबुद्धिजन्यत्वं तदिति चेत्, न, परत्वापरत्वे विहाय परावाग्भावयोरभावात् । येन विषयेणापेक्षाबुद्धेर्वैचित्र्यं स इति चेत्, न, अपेक्षाबुद्धेविं- षयवैचित्र्यमन्तरणापि विचित्रकार्यजननशीलत्वेन विलक्षणफ- लजनकत्वाविरोधात् । अत एव तर्हि विचित्रव्यवहारजनकत्वम- न्यायलीलावतीकण्ठाभरणम् या संख्या यत्संख्यासमानाधिकरणात्यन्ताभावाप्रतियोगिनी सती यदत्यन्ताभावसमानाधिकरणा सा तदपेक्षया परा, या च यत्समाना. धिकरणात्यन्ताभावप्रतियोगिनी सती यदत्यन्ताभावव्यापकात्यन्ता. भावप्रतियोगिनी सा तदपेक्षयाऽपरेति तन्निबन्धन एव (?) परापरव्य. वहारोपपत्तौ किन्ताभ्यामिति चेत्, न, परत्वापरत्वे एकैकमात्रवृत्ति तथा अनुभूयेते संयुक्तसंयोगास्तु व्यासज्यवृत्तय इति न तैरन्यथासि- द्विः । किञ्च संयुक्तसंयोगानां योग्यायोग्यघटिततया अयोग्यत्वादिति । एकद्वयसमूहालम्बनं पराचीनमेक त्रयसमूहालम्वनमपराचीनमिति विशेष इत्याह –पराचीनेति । ननु अपेक्षाबुद्धिवैचित्र्यनिमित्तं त्वयापि वा. त्र्यं तदेव व्यवहारनिबन्धनं स्यादित्याह – येति । एकत्वसमूहालम्व. नमपेक्षाबुद्धिरविचित्रापि विचित्रं कार्य शक्तिवैचित्र्यात करिष्यती. त्याह - नेति । 'शीलं' स्वभावः । 'विलक्षणं फलं' परत्वमपरत्वं च । ननु शील वैलक्षण्याधीनं व्यवहारवैलक्षण्यमेव किं न स्यादित्याह - अत एवे. - न्यायलीलावतीप्रकाशः कस्य घनतरालोक मध्यवर्त्तिनः संयुक्त संयोगाल्पीयस्त्वे यदपरत्वं विर. लालोकमध्यवर्त्तिनः संयुक्त संयोगभूयस्त्वे यत्परत्वमुत्पद्यते तन्न स्या. त् । ननु परत्वापरत्वयोरुत्पत्तिनिय मे ऽपेक्षाबुद्धिविषयनियमो वाच्य इति तत एव तद्यवहारः स्यादावश्यकत्वादित्याह—येनेति । द्वित्वादिज. नकापेक्षाबुद्धेर्विषयनियमं विनापि तत्स्वभाषात्तंदुत्पत्तिनियमः स्या- दित्याह – अपेक्षाबुद्धेरिति । अत एवेति । विचित्रकार्यजनक स्वभावादेवे- न्यायलीलावतीप्रकाशविवृतिः - शेषः । तत्संयोगस्य योग्यत्वेन प्रत्यक्षपरत्वादिप्रतीतेस्तनान्यथासि. जिसम्भवादिति भावः । 'अपरत्वम्' अपरत्वब्यवहारः । एवमग्रेऽपि ।