पृष्ठम्:न्यायलीलावती.djvu/४८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण सविवृतिप्रकाशोद्भासिता ४०५ श्चित्तदसत्वात् । न च संयुक्त संयोगस्वरूपं कश्चिद्रणयति । प्रत्येकं सामान्यतस्तदनुमानमिति चेत्, न, न ह्यविद्यमानमनुमातुं शक्य. म् | न च लिङ्गमस्ति । दूरत्वादूरत्वे लिङ्गमिति चेत्, न, दूर- त्वादुरत्वयोः परत्वापरत्वातिरिक्तयोरभावात् । ततः परत्वा- परत्वसामानाधिकरण्यमेव संयुक्त संयोगस्य भूयस्त्वमल्पत्वं चोत्प ने परत्वापरत्वेऽवभासते | यत्तु भासर्वज्ञीयं मतं पूर्वोत्पन्नत्वं न्यायलीलावतीकण्ठाभरणम्

    • स्यान्न त्वेवमित्याह - न चेति । ननु गणनामन्तरेणैव सामान्यत एव

संयुक्त संयोगबहुत्व मल्पत्वं वा उन्नीय परापरव्यवहारः स्यादित्याह- सामान्यत इति । बहुत्वं सङ्ख्याविशेषः स यद्युत्पद्येत तदाऽनुमीयेतापि गणनामन्तरेण तदुत्पत्तिरेव नास्तीत्याह - न हीति | न च संयुक्त संयो• गभूयस्त्वादिकं प्रतिलिङ्गमस्ति येन तदनुमीयेते त्याहन चेति ननु दूर. त्वेन भूयस्त्वं अदूरत्वेन चाल्पत्वं संयुक्त संयोगानामनुमयितेत्याह- दूरत्वेति । उपसंहरति- - तत इति । उत्पन्न इति । आरोपित इत्यर्थः तथा च परत्वारोपात संयुक्त. संयोगभूयस्त्वधी रपरत्वारोपात् तदल्पत्वधीस्तयोरुत्पत्तिरिति भा. वः । अन्यथा अन्योन्याश्रयः स्यात् । भाष्यं चैवमुपपादितं भवति । न्यायलीलावतीप्रकाशः रिति । कुतस्तहो॑ति । उक्तरीत्या संयोगे तदभावादित्यर्थः । न चेति । व्यापक विना व्याप्याभावादित्यर्थः । अनुभवसिद्धां संयोगभूयस्त्वादिधियमुप पादयति — तत इति । कालकृतपरत्वापरत्वे अधिकृत्याह - यत्त्विति । ननु परत्वधीरपरत्वाश्रयाभिमतावच्छेदकाद्य सूर्याक्रियामागमावसमानकाल त्वालम्बना तत्पिण्डप्रागभाव समानकालीनत्वालम्बना वा। अपरत्वधी. स्तु परत्वाधारताभिमतपिण्डसमानकालपदार्थध्वंसकालोत्पत्तिमत्त्व. विषया तदुत्पत्तिकालानाश्रयत्वे सति तदुत्तरकालत्व विषया वा अस्तु, न्यायलीलावतीप्रकाशविवृतिः त्वात् । तत्पिण्डेति । परत्वाश्रयाभिमत पिण्डेत्यर्थः । तदुत्पत्तिकालेति । अ- त्रोभयदलेऽपि परत्वाधाराभिमतः पिण्डस्तत्पदार्थः । सत्यन्तं चो.