पृष्ठम्:न्यायलीलावती.djvu/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ४०७ न्यायलीलावतीप्रकाशः वृत्तिगुणत्वव्याप्य जातिशून्य संयोगासमवायि कारण कैकवृत्तिगुणवान् मूर्त्तत्वात् पार्थिवपरमाणुवत् । तादृशो गुणो दृष्टान्तं गन्धादिरुभयसि न्यायलीलावती प्रकाशविवृतिः स्थ्यमित्यसमवायीति । घटरूपं तु न पाकजमिति भावः । एव. मध्यन्यतरसियाऽर्थान्तरमिति शून्यान्तं गुणवशेषणम् । तत्रापि नानापरत्वरर्थान्तरमिति गुणत्वव्याप्यजातिगर्भता । गुणत्वव्याप्य जातिपदं च गुणविभाजकोपाधिपरमन्यथा दैशिक कालिकपरत्वयोः परम्परविजातीयतया परत्वापरत्वासिद्धिः वस्तुतोऽग्रे वक्तव्यकालाप्र. तियोगिकत्वादिविशेषणादेवैत होषानवकाशः । रूपादिव्यातनाय संयो. गासमवायिकारण केति । तत्राप्यदृष्टवदात्मसंयोगमादाय बाध इत्यस- मवायीति । संयोगव्यावर्त्तनाय एकवृत्तीति । परमाणुरूपादिव्यावर्त्तनाय समानाधिकरणेति । प्रचयाख्य संयोगजन्यं परिमाणं घंटे बाधितमेवेति न तेनार्थान्तरम् । गुणत्वव्याप्यपदं तु सत्तादिना बाधवारणाय | प्रथम- गुणपदं तु सम्पातायातम् । न च दैशिकसाधने कालिकाभ्यां कालि कसाधने च दैशिकाभ्यां परवापरत्वाभ्यामथांन्तरमिति वाच्यम्, दैशिकसाधने कालाप्रतियोगित्वस्य कालिकसाधने दिगप्रतियोगि त्वस्याभयदले संयोगविशेषणत्वात् । कवित्तु समानाधिकरणपदोत्तरं द्विष्ठपदमग्रिमप्रतीके चैकवृत्तिपदहीन एव पाठस्तत्र समानाधिकरण- पदानन्तरं गुणपदं विजातीयपदं च प्रवेश्यमतो नाभिघातजकर्मसा- मानाधिकरण्येन सजातीयव्यक्ति विशेष सामानाधिकरण्येन वाऽर्था. न्तरम् | तादृशस्वसमानाधिकरणगुणविजातीयद्वष्ठगुणवृत्तिगुणत्व- व्याव्यजातिशून्यश्च यस्तादृशो गुणस्तद्वत्त्वमिति च साध्यनिरुक्ति- रिति दिक् । मृतत्वादिति । न च परिमाणवत्वादित्येव साधु दिक्कालयोर्व्यवच्छे- द्ययोः परत्वाद्यसिद्धिदशायामसिद्धेरिति वाच्यम्, प्रकारान्तरेणापि तयोः सिद्धेरसिद्धावण्याकाशे निरुक्तसाध्याभावेन व्यभिचारात् । क्षणद्वयावस्थायित्वं च हेतुविशेषणमतो न तृतीयक्षणनष्टघंटे व्यभि चारः । तत्र द्वितीयक्षणेऽसमवायि संयोगोत्पत्या परत्वाद्यनुत्पत्तेः । कालिकपरत्वसाधने च गन्धवत्वं विशेषणमतो न मनास न वा जला• दिपरमाणौ व्यभिचारः । न च विशेष्यदलं तथा सति व्यर्थमिति