पृष्ठम्:न्यायलीलावती.djvu/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती प्रकाशो बुद्धिः | सा च द्विविधा | विद्या चाविद्या च । न्यायलीलावतकण्ठाभरणम् प्रकाश इति । अनेन बुद्धित्वं लक्षणमुपलक्षयति विषयप्रकरणत्वं द्धः । दिक्कृतकालकृतपरत्वापरत्वयारपेक्षा बुद्धि विशेषजन्याविभुवृत्ति मात्रवृत्तिगुणत्वच्याप्यजातिमत्त्वनैकोपाधिना एकगुणत्वमित्याहुः । प्रकाश इति । ननु प्रकाशो बुद्धिरिति पर्यायौ न च पर्यायेन लक्षणम् । किञ्च चैत्रादिपदवत् यत्र बुद्ध्यादिशब्दः सत्यते तत्रातिव्याप्तिः । ईश्व न्यायलोलावती प्रकाशविवृतिः . न्यायलीलावतीप्रकाशः वाच्यम्, तत्र तदनुपादानात् । चतुर्विंशतित्वव्याघातमाशयाह- दिक्कृतेति । परत्वयोरपरत्वयोश्चेत्यर्थः । अपेक्षाबुद्धिविशेष उभयापरत्वा. जनक उभयपरत्वाजनकश्च । अपेक्षा वुद्धिविशेषाजन्यं चाविभुवृत्ति. मात्रं चेति विग्रहस्तनेश्वरापेक्षाबुद्धिजन्यपरत्वादिवृत्तितया परत्वाप रत्वयोर्नासम्भवः । एवञ्च सुखंऽतिव्याप्तिवारणायाsविभुपदम् । द्वित्वे प्रतिव्याप्ति (रिति?) मात्रपदम् । गुणत्वव्याप्यपदं च स्पष्टार्थम् । स तागुणत्वादीनां मात्रपदेनैव वारणात | द्रव्यत्वादेश्च प्रथमप्रतीकनै वाप्रसङ्गात् । केचिन्नु भूयस्वालपस्वविषयत्वमेव विशेषः । भूयस्त्वादिकं च क चित्संयोगनिरूपितं क्वाचेश्च स्पन्द निरूपितमित्यन्यदेतत् । एवञ्चाहं भू. योगुणवानित्याभिमानिकसुखातिव्याप्तिवारणायाविभुवृत्तीति । गुणत्व मादाय तथापि तद्दोषतादवस्थ्यमिति मात्रपदम् । गुणत्वव्याप्यपदं वा भुयत्वादिविषयत्वेन च जनकत्वमतो नेश्वरबुद्धिमादाय रूपादाव तिव्याप्तिरिति व्याचक्षते । तदयुक्तम् । तथा सति तादृशबुद्धिजन्या- विभुवृत्तित्वमात्रस्य च क्षणत्वे जातिगर्भतावैयर्थ्यादिति दिक् । पर्यायेति । यद्यप्युभयपदवाच्यत्वमपि लक्षणमविकलमेव नाम कु र्यादिस्यत्र विधेयगतत्वेनैकत्वस्य विवक्षितत्वादन्यत्र पदद्वयवाच्यत्वा. भावात्तथापि शक्यतावच्छेदकमप्रतीत्य वाच्यत्वं प्रत्येतुमशक्यमिति प्रथमोपस्थितत्वेन तदेव लक्षणमुक्तम् । केचित्तु उभयपदवाच्यत्वं करणेऽतिप्रसक्तमिति तदुक्तमित्याहुः । तदयुक्तम् । तद्वाचकत्वे वाक्य. तथा सङ्केता (भा?) वात् । नवीनास्तु प्रथमचरमाश्रमचि राहतोभयनाम