पृष्ठम्:न्यायलीलावती.djvu/४८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती नाप्युभयविधिनिषेधौ । उभयावधारणप्रसङ्गात् । निषेधस्यानु पलम्भमात्राद्वा निश्चयः, योग्यतासहिताद्वा । नाथः । अतीन्द्रिय निषेधावभासापत्तेः । न द्वितीयः | तत्त्वस्फुरणे अतत्वारोपानु- पपत्तेः । स्थाणत्वोपलम्भे च तदनुपलम्भाभावात् । शुक्तिकायां रजतावभास इवाभावावभासानुपपत्तेः । तत्र दोषवशादभावानुप- लम्भस्यात्रापि तुल्यत्वात् ( १ ) | दूरत्वादेरप्यत्र ( २ ) सन्चात् । न्यायलीलावतीकण्ठाभरणम् स्थाणुत्वनिषेधे च पुरुष एवेत्यवधारणप्रसङ्गः । नापीति | स्थाणुरयं न पुरुषः पुरुषोऽयं न स्थाणुरित्यपि न संशयविषय इत्यर्थः । उभयेति । विरोधिकोटिनिषेधस्य विरोधिनिश्चय पर्थ्यवसायित्वादिति भावः । नि. बेधस्फुरणमाक्षिपति - निषेधस्येति । संशयो न निश्चयाभिन्नः सिद्ध इति संशये वक्तव्ये निश्चय इत्येवाह -- तत्वस्फुरणेति । विधिस्फुरणेत्यर्थः तत्र योग्यानुपलब्धेरभावमाह - स्थाणुत्वेति । अत्र दृष्टान्तमाह - शुक्ति- कायामिति । रजतत्वोपलम्भाधीनो न रजतत्वाभावानुपलम्भः किन्तु दोषाधीन इत्याह -तत्रेति । उक्तदोषेण व्य (बा ? ) र्थ विकल्प्य दूषयति- - न्यायलीलावतीप्रकाशः SU तच्च पुरुषनिषेधपक्षे । स्थाणुनिषेधपक्षे तु पुरुष एव स्यादित्यपि द्रष्ट व्यम् । उभयविधिनिषेधः पुरुषोऽयं न स्थाणुः स्थाणुरयं न पुरुष इत्यर्थः । उभयेति । अन्यतरकोटिनिषेधस्यापरकोटिनिश्चायकत्वादि त्यर्थः । योग्यतेति । यद्यपि योग्यानुपलब्धिरभावनिश्चयहेतुरयं च सं. शयः । अत एवानुपलम्भमात्रादतीन्द्रिये संशयो भवत्येष तथापीदं तयोर्भेदसिद्धावेव स्यात् सैव चासिद्धेति भावः । तत्त्वस्फुरण इति । स्था त्वपुरुषत्वस्फुरणे तयोरभावारोपानुपत्तेः। विशेषदर्शने तदभावादि. त्यर्थः । न वा स्थाणुत्वपुरुषत्वयोरनुपलम्भोऽपि येन निषेधावनमः स्या- दित्याह—स्थाणुत्वोपलम्भे चेति । शुक्तिकायामिति । यथा शुक्तौ रजतत्वारोपे रजतत्वाभावः सन्नपि न भासत इत्यर्थः । अत्रापीति | संशयस्यापि दोष जन्यत्वादित्यर्थः । ननु वाशब्दार्थः संशयविषयः स्यादित्यत आह - ( १ ) समानत्वात् । ( २ ) ०पि तत्रापि सत्त्वात् ।