पृष्ठम्:न्यायलीलावती.djvu/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठामरण-सर्विवृति प्रकाशाद्भासिता ४११ वार्थश्च न द्वयविधिन द्वयनिषेधः । अन्यतरनिषेधो वा । कीर्ति- तदोषात् । नापि चरमो, नित्योऽनित्यो वेत्यत्राधिकाभावासच्चे तदनुपपत्तेः । नापि विरोधः | तन्निश्चये वाशब्दसम्भेदानुपपत्तेः । एककोटिस्वीकारमश्ने (१) च तदनुपपत्तेः । अन्य एवायमा कारभेदः स्ववासनायातो वाशब्दसम्भेदी | अस्थाण्वादिव्यावृत्तिकृतश्च स्था. ण्वादिपदप्रयोगः । चित्राकारे (२) नीलादिशब्द सम्भेदवदिति समा न्यायलीलावतीकण्ठाभरणम् व्य(वाऽ?)र्थश्चेति । उभयविधिनिषेधौ वेति चरमं दूषितमपि दूषणान्तर• दानाय विशिष्याक्षिपति - नापीति । परस्परविरहरूपयो: कोट्योर्भाव. त्वाभावत्वयोर्विधिकोटिचतुष्टयाभावादित्याह-अनित्य इति । नित्यत्वा- नित्यत्वयोः परस्परविरहस्वभावत्वमभ्युपेत्योक्तम् । अन्यथा तयोः सत्तागर्भत्वेन ध्वंसप्रागभावयोर्व्यतिरेक एव तदनुपपत्तेरिति कोटिव- तुष्टयानुपपत्तेरित्यर्थः । नापि विरोध इति । वानर्हन्नर्हत्यनुषञ्जनीयम् ? | संशय विषय इत्यनुषञ्जनीय इत्येके | गोत्वाश्वत्वे विरुद्धे इत्यत्रापि वा- कारसम्भेदापत्तेरित्याह - तन्निश्चय इति । किञ्च चैत्रः श्यामो वा गौ. रो बेत्यत्राविरोधाभानेऽपि वाकारसम्मेददर्शनादित्युभयतो व्यभि चार इत्याह - एककोटीति । तत् किं संशय विषयो नास्त्येव तथा चा नुभवविरोध इत्यत आह - अन्य एवेति । समानधर्म्म जत्वादिकमिति । आ न्यायलीलावतीप्रकाशः वाऽर्थश्चेति । नापीति । प्रागुतविकल्पे चरमः कल्पः उभयविधिनिषेधरूपो वाकारार्थो नापीति संशयस्य विषय इत्यनुपपत्तेर्विरोधोल्लेखानुपपत्तेः न हि नित्यत्वानित्यत्वे सहानवस्थायिनीति तत्र वाशब्दार्थः । तथा च तज्ज्ञानं संशयो न स्यादित्यर्थः । तल्कि संशयस्य विषय एव नास्ति ? नेत्याह - अन्य एवेति । स्ववासनेति । अनादितादृशज्ञानज संस्कारप्रभव इत्यर्थः । वाशब्देति । वाशब्दार्थोऽपि स एव ज्ञानाकार इत्यर्थः । नन्वेवं संशयविषये कथं स्थाणुत्वाद्यवभास इत्यत आह - अस्थाण्वादीति | विचि. न्यायलीलावतीप्रकाशविकृतिः - मानपि वह्नयभाववान् स्यादित्यत्रेत्यर्थः । नन्वेवमिति । संशयस्याकार- ( १ ) ०९पक्षे च त० | ( २ ) विचित्राकार इति प्रकाशनः पाठः ।