पृष्ठम्:न्यायलीलावती.djvu/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ व्यायलीलावती नधर्मादिजत्वं (१) लक्षणमसिद्धमिति केचित् । तन्न (२) । उभयवि- न्यायलीलावतीकण्ठाभरणम् दिपदाद् विप्रतिपत्तिजत्वसङ्ग्रहः । तस्याप्यत्यनभ्युपगमे सामान्य. लक्षणसङ्ग्रहः । असमानधर्म्मजत्वमनध्यवसायलक्षणम् | उभयविधेरि- न्यायलीलावतीप्रकाशः त्राकार इति । यथा विचित्राकारेऽलीक एवानीलादिव्यावृत्तिनिबन्धनो नीला दिपदप्रयोग इत्यर्थः । समानधर्मादीति | आदिपदाद्विप्रातपत्तेः संश. यसामान्यलक्षणस्य च संग्रहः । असाधारणधर्मजज्ञानस्याऽनध्यवसा यत्वात् संशयस्य स्थाण्वादिभिन्न विषयतया समानधर्मस्य कोट्यनुप. स्थापकत्वात् समानधर्मादिजत्वं लक्षणमसिद्धमित्यर्थः । उभयविधे. रिति । उभयस्य स्थाणुत्वस्य पुरुषत्वस्य च यो विधिवैशिष्टयं तस्य यदुभर्यानषेधवैशिष्टयं तस्य संशयविषयत्वादित्यर्थः । भावाभावस. न्देहे च तदभावेऽप्ये कस्मिन् धर्मिणि विरोधिनानाप्रकारवैशिष्ट्यं सं- शयविषय इति भावः । ननु धूमाभाववानयं यदि धूमवान् स्यात् तदा वाभाववानयं वह्निमान् स्यादिति तर्केऽतिव्यापकमिदम् । अथ तत्र धूमाभावविशिष्टे धूमवैशिष्टयं विषयः संशये च तुल्यवदुभयवैशिष्ट्यं विषय इति चेत्, तथाप्येकस्मिन् धार्मेणि विरोध्युभयवैशिष्ट्यमिति शब्देन जनिते ज्ञानेऽतिव्याप्तिः । जिज्ञासाजनकं ज्ञानं संशयः, न हिसा निश्चयजन्या अनुच्छेद्यत्वापत्तेरिति चेत् न, उपेक्षणीयसंशयाव्या.. न्यायलीलावतीप्रकाश विवृतिः विषयत्वे यद्यपि मूले प्रयोगः समर्थ्यत इत्यवभाससमर्थनव्याख्यानं विरुद्धं तथापि करणव्युत्पत्याऽवभासपदेनापि प्रयोग एवोक्त इति ध्येयम् । यथेति । यद्यप्यलीकेऽनीलव्यावृत्तिरपि नास्ति तथापि नन्मते व्यावृत्तेरलीकतयाऽसतुख्यात्या तदुपस्थितेस्तत्प्रयोग इति भावः । संशयसामान्यलक्षणस्येति । पूर्व दूषितस्य विरुद्धोभयविधिविषयत्वादेरि- त्यर्थः । नन्वसाधारण धर्मजत्वमेव किमित्यादि पदसंग्राह्यं नोक्कमि त्यत आह - असाधारणेति । तथा च तत् संशयलक्षणमेव नेति भावः । ( १ ) समानधर्मजन्वादिकं ( २ ) तिचत्र,