पृष्ठम्:न्यायलीलावती.djvu/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४१३ न्यायलीलावतीकण्ठाभरणम् ति । चतुष्कोटिकमनेनोक्तम् । भावाभावसन्देहेऽपि भावत्वमभावत्वं स्वभावाभावत्वं भावाभावत्वं च कोटिचतुष्टयं यथाकथञ्चिदुपपाद्यम् । न्यायलीलावतीप्रकाशः पनात्रैतद्योग्यतायाश्च तदवच्छेदकधर्माज्ञानादप्रतीतेः । ज्ञाने वा त. स्यैव लक्षणत्वापत्तेः । अनध्यवसायेति व्याप्तेश्च संस्काराजनकं ज्ञा नं संशयः । यद्यपि निश्चयोऽपि क्वचित्तथा तथापि तत्र तज्जनकताव. च्छेदकरूपवत्त्वमस्ति संशये तु न तथात्वं स्थाणुर्वा पुरुषो वेति स्म रणाभावात् । संशयस्य हि नेन्द्रियार्थसन्निकर्षमन्तर्भाव्य सामग्री तद्विच्छदेऽपि मनसैव तज्जननादिति चेन्न, तस्याप्यनुगतरूपानुप- स्थितौ तत्राग्रहात् । अथ संशयत्वं जातिः । न च चाक्षुषत्वादिना परा. परभावानुपपत्तिः, सर्वत्र हि मानस एव संशयः सौदामिनीसम्पा- तादौ कञ्चित्समानधर्मवन्तं धर्मिणमालोक्यान्धकारेऽपि सन्देहात चक्षुराद्यनुविधानस्य चानुमिताविव धर्मिंग्रहांपक्षीणत्वात् वहिरि न्द्रियजन्यत्वेऽपि गत्वतारत्वत्रच्चाक्षुषत्वादिव्या व्यतन्नानात्वेनाप्युप पत्तेः | मैवम् । तथासति धर्म्यशेऽपि संशयत्वापत्तेः जातेर्व्याप्यवृ त्तित्वनियमात् । अत्राहुः । संशयविषयबोधकशब्दस्यायोग्यतया ज्ञानाजनकत्वान्न न्याय लीलावतीप्रकाशविवृतिः तथापि तज्जनकेति । निश्चय त्वमेवाच्छेद कमिति योग्यता तत्राप्यस्त्येव । तद्भाव एव च लक्षणमिति भावः । नन्विन्द्रियार्थसन्निकर्षजत्वेन संशये निश्चयत्वमस्त्येवेति तदपि संस्कारजननयोग्यमेवेत्यत आह- संशयस्य होति । तथा च तदध्यसिद्ध मेवेति भावः । यद्वा संशयात्मक- स्मरणाभावादित्येवासिद्धम् इन्द्रियव्यापारविग मेऽप्यनुभूयमानस्य संशयस्य स्मरणत्वावश्यकत्वादत आह - संशयस्य हीति । न च वहि- रिन्द्रिय सन्निकर्षमन्तर्भाव्यैव तत्सामग्रीति मनसैव ज्ञानात्मकसन्त्रि. कर्षसहितेन तत्रानुभवात्मकसंशयजननम् अननुभूतवाहिरिन्द्रिय गोचरार्थनिश्चये मनसो ज्ञानसन्निधिकल्पनादिति भावः | तस्येति । संस्कारजनकत्वाभावस्याप्यनुगताधिकरणनिष्ठ रूपा प्रत्ययेऽप्रत्यय ए व । तत्प्रत्यये तु तदेव लक्षणमिति भावः । तन्नानाखेति । इदं चापा- ततो वस्तुतः पूर्वोक्तमेव सम्यक् । एवं सत्यननुगमेन लक्षणत्वाभा- वादित्यवधेयम् । संशयविषयेति । तथा चैकस्मिन् धम्मिणि विरोधि. , , ,