पृष्ठम्:न्यायलीलावती.djvu/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण-सचिवृति प्रकाशोन्द्रासिता ४१५ धारण्येनोभयराशिस्मारकत्वात् । दोषमाहात्म्यात् तदनुपलम्भा- भावेऽपि सन्निकर्षाभावे रजतारोपवत (१) कोटिचतुष्टयारोपोप- न्यायलीलावतीप्रकाशः ह्युपस्थितौ विशेषाग्रहे च समानधर्म ग्रहं बिना संशयादर्शनात् समा. मधर्मोत्कर्षेण संशयोत्कर्षदर्शनाच्च योग्यानुपलम्भाभावे कथमभा- वग्रह इति दूषयति - दोषेति । योग्यानुपलम्भो ह्यभावप्रमां प्रति कारणं न त्वभावज्ञानमात्रं प्रतीति भावः । सन्निकर्षाभाव इति । यद्यपि विशिष्ट प्रत्यक्षमात्रे न विशेषणसन्निकर्षो हेतुः किन्तु विशेष्य सन्निकर्षः । सच भ्रमेऽस्त्येव तथाप्ययं स इति भ्रान्तविपरीतप्रत्यभिज्ञानं तत्ताश्रयस्य विशेष्यस्यासन्निकर्षेऽपि भ्रमोत्पत्तिमभिप्रत्योक्तं स्फुरितयोरिति । स्फुरितत्वं विशेषणं न तूपलक्षणम्। 'विकल्पविषयत्वात् 'संशयविषय. न्यायलीलावतीप्रकाशविवृतिः , वाचवोक्तौ । न च तयोः समुच्चयसम्भवः । न च स्थाणुपुरुषसंशया. द्यव्याप्तिस्तस्यापि चतुः कोटिकत्वाभ्युपगमात् । अयं च प्रकारः पूर्व- लक्षणेऽपीति सारम् । अन्यथा पीतः शङ्ख इत्यत्रातिध्याप्तिः । न च तत्र विरोधभानमेव नेति वाच्यम्, उपनीतस्य तस्य भानाविरोधात् । न चोपनायकविरोधज्ञाने सति तादृशं ज्ञानमेव नेति वाच्यम्, प्र. त्यक्षे विरोधिज्ञानमात्रस्याप्रतिबन्धकत्वात् । समानधर्मग्रहं समानध मे॒वद्धर्मिग्रहम् । संशयोत्कर्षति । उत्कर्षश्च बहुकालस्थायिसजातीयसाहि- त्यमेवेति भावः । अभावप्रमामिति । अभावनिश्चयत्वावच्छिन्नमित्यर्थः । भेदश्च निश्चयसंशययोरुपपादित एवेति भावः । यदि च योग्यानुपल. म्भो विशेषसामग्री तदा यथाश्रुतमेव । तथाप्ययं स इति । तत्राश्रयतया विशेष्यत्वमिति विपरीतेत्युक्तम् । यद्यपि विशेषासन्निकर्षे साक्षात्का- राभावादयुक्तमिदम्, एतादृशप्रत्यभिज्ञानस्य च मानसस्य मनः सन्नि कर्षेण ज्ञाननैवोपपत्तेः । तथापि यः कश्चिदेकदेशी सन्निकर्षे विनापि वहिरिन्द्रियेणैवायं भ्रम इति मन्यते तन्मतेनायं दृष्टान्त इति भावः । अत एवाह — अभिप्रेत्येति । अभ्युपेत्येत्यर्थः । वस्तुतो विशेषणसन्निकर्षस्य सामान्य कारणत्वं सम्भवदपि रजतभ्रमानुरोधेन यथा त्यज्यते तथा ( १ ) ० रोपाच को० ।