पृष्ठम्:न्यायलीलावती.djvu/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती पत्तेः । एकत्र घर्मिणि स्फुरितयोर्विरोधस्यैव (१) विकल्पविषय. त्वात् । तस्यैव वाशब्देनाभिलापादिति सर्वे सुस्थम् । परस्पर विरुद्धार्थावमर्श: संशय (२) इति लक्षणम् । [ इति मंशय: ।] न्यायलीलावतीकण्ठाभरणम् विषयं विवेचयनवाधारार्थमपि (?) विवेचयति – एकत्रेति । संशयविषय एवं विरोधो वाशब्देनाभिलप्यत इत्यर्थः । एककोटिपरिग्रहप्रश्ने ऽपि कथञ्चिद्विरोध एव वाकारार्थः । स गौरः श्यामो वेतिवत् । यद् द्रव्यं घटो बेतिप्रश्नानुदयात् । परस्परेति । ननु धूमाभाववानयं यदि धूमवान् स्याद् वह्नयभाववानयं वह्निमान् स्यादति तर्के अतिव्या- पकमेतत् । किञ्च लक्षणवाक्यजन्यज्ञानेऽतिव्याप्तिस्तेनापि तादृशशा. नजननात् । न च जिज्ञासाजनकज्ञानवत्त्वं लक्षणम्, उपेक्षणीयसंशये. ऽव्याप्तेः, जनकतावच्छेदकप्रकारापरिचयाञ्च | परिचये वा तस्यैव लक्षणत्वात् । अनध्यवसायातिव्याप्तेश्वः । संस्काराजनकज्ञानत्वं च क्वचिन्निश्चयेऽतिव्यापकं तत्र निश्चयत्वेनैव संस्कारजननयोग्यतेति चेत्, न, स्थाणुपुरुषसंशयानन्तरं स स्थाणुः पुरुषो वेति स्मृतिस म्भवेन संशयस्यापि संस्कारजनकत्वात् तन्न स्मरणं किन्तु संशय एवायमपरो न हि चक्षुरादिसन्निकर्षावश्यकत्वं संशये विद्युत् सम्प तनादौ धम्मिदर्शनानन्तरं तादृशमानससंशयाद्यनुभवादिति चेन्न, निश्चयव्यावृत्तेन रूपेण संस्काराजनकत्वस्यैवाग्रहात् । न च संशय- न्यायलीलावतीप्रकाशः त्वादित्यर्थः । तस्यैवेति । संशयविषयस्यैवेत्यर्थः । न चैवं धर्मिण्यपि वाकारान्वयः स्यात्तस्यापि विषयत्वादिति वाच्यम्, प्रकारस्यैव वि षयत्वेन विवक्षितत्वात् । परस्परेति । एकस्मिन् धर्मिणीति शेषः । तेन न समूहालम्बनातिव्याप्तिः । न्यायलीलावतीप्रकाश विवृतिः योग्यानुपलम्भस्याव्यभावज्ञानसामान्य कारणत्वमिति मूलार्थ इति भाति । अतीतत्वमर्थो न विवक्षित इत्याह - स्फुरितत्वमिति स्फुरणमि- त्यर्थः । तथा च स्फुरितो मूलार्थ इति भावः । - (१) ०योराकारयोर्वि० । (२) परस्पर विरुद्धयोरवमर्श इति ल० ।