पृष्ठम्:न्यायलीलावती.djvu/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४१७ विपर्ययोऽप्यतस्मिंस्तदिति प्रत्ययः । यथा शुक्तिकायां रज तमिति ज्ञानम् | ननु चात्र पुरोवर्त्तिज्ञानं दोषवशोपजाततदंश. मोषं रजतत्वसामान्यस्मरणं, रजतत्वस्य च पुरोवर्तिनि समवाय तदभावयोरज्ञानं प्रवृत्तिव्यपदेशादिरूपव्यवहारे कारणम् । स- त्यरजतेऽपि तथैव प्रवृत्तिदर्शनात् । तत्रापि रजतव्यक्तिज्ञानं । न्यायलीलावतीकण्ठाभरणम् त्वं जातिचा क्षुषत्वादिना परापरभावानुपपत्तेः । न च सर्वत्र मानस एव संशयः, चक्षुराद्यन्वयव्यतिरेकदर्शनात् । सौदामिनीसम्पातादि. स्थले मानसोऽपि स्यान्न विरोधः, धर्म्माशेऽपि संशयत्वापत्तेः, जाते. र्याप्यवृत्तित्वात् । मैवम् । एकधमिकविरोधिनानाप्रकारकज्ञानस्य संशयत्वात् लक्षणवाक्यजन्यज्ञानस्य विरोधिनानाप्रकारकत्वप्रका रकत्वादिति । विपर्थ्य योऽपीति । जाग्रद्दशाक विशेष्यावृत्तिप्रकारकनिश्चयत्वमिति लक्षणम् । ननु प्रवृत्तिः पुरोवत्तिनि ज्ञानंच रजतत्वप्रकारकमतः प्रवृ त्यनुरोधादन्यथाख्यातिः स्वीकर्त्तव्या प्रवृत्तिश्चान्यथोपपश्नेत्याह- ननु चेति । पुरोधर्त्तिनि रजतत्वस्य समवायज्ञानेऽन्यथा ख्यातिस्तदशाने चाप्रवृत्तिरित्याशङ्ख्याह - रजतत्वस्येति । नन्वेमननुगम इत्यत आह - सत्यरजतेऽपीति । अनुगमने वाऽह -तत्रापीति । ननु तत्र समवाये सति कथं न्यायलीलावतीप्रकाशः विपर्ययोऽपीति । निश्चयत्वे निद्राद्यजन्यत्वे च सवि विशेष्यावृत्तिप्र. कारकं ज्ञानमित्यर्थः । ननु पुरोवर्त्तिनि रजतत्वसमवायग्रहणे वि. शिष्टज्ञानस्वीकारापत्तिः, तद्भावग्रहणे चाप्रवृत्तिप्रसङ्ग इत्यत आह - समवायेति । ननु संवादिरजतार्थिप्रवृत्तौ सामग्यून्तरकल्पनादननुगमः - न्यायलीलावतीप्रकाशविवृतिः संशयानध्यवसायस्वप्रेष्वतिव्याप्तिभयादाह - निश्चयत्व इति । नि श्चयत्वं न संशयभिन्नत्वमनध्यवसायातिव्याप्तितादवस्थात्, किन्तु अविरोधिकोटिकत्वम् । केचित्तुं निद्रादीत्यादि पदेनानध्यवसायकार- णग्रहात्तेनैवानध्यवसायवारणे निश्चयत्वं संशयभिन्नत्वमेवेत्याहुः ।