पृष्ठम्:न्यायलीलावती.djvu/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती मनुभूतपुरोवर्तिना वस्तुना अगृहीतभेदं वा प्रवृत्तिकारणं भेद- ज्ञानमसमवायज्ञानं च निवर्तकमिति व्यवस्थिते प्रयुज्यते विवा ४२० न्यायलीलावतीकण्ठाभरणम् तिनोभेदाग्रह इत्यर्थः । भेदज्ञानमिति । इष्टभेदाज्ञानमित्यर्थः । असमवायज्ञान- मिति । रजतत्वासंसर्गज्ञानमित्यर्थः । उभयसिद्धयथार्थज्ञानेंऽशतः लि. न्यायलीलावतीप्रकाशः जानामीत्य नुव्यवसाय साक्षिकत्वात्तस्य | भ्रान्तिश्च न पुरोवर्त्तिरज तयोस्तयोः सत्त्वात् । नापि तयोस्तादात्म्ये तस्यात्यन्तासत्त्वेना- सत्ख्यात्यापत्तेरिति भावः । न त्विदं रजतमित्यत्र शुक्त्या समं पुरोवर्त्तिनो भेदग्रहेऽन्यथाख्यात्यापत्तिः, तदग्रहे चानिष्टभेदाग्र- हान्निवर्तेत | अथानिष्टतावच्छेदकरूपेणोपस्थितानिष्टभेदाग्रहानिवृत्तिर्न चेद म्त्वमनिष्टतावच्छेदकं तथापीदं रजतं न शुक्तिरित्यत्रानिष्ट तावच्छेदकशुक्तित्वेनोपस्थितभेदाग्रहान्निवर्त्तते | मैवम् । स्वात. येणोपस्थितेष्टानिष्टभेदाग्रहयोः प्रवृत्तिनिवृत्तिहेतुत्वात् अभाववि शेषणत्वेनानुपस्थितिश्च स्वातन्त्र्यमनिष्टं च तत्राभावविशेषणतया भासते । ननु तथापि भेदाग्रहो न प्रवर्त्तकः सत्यरजतस्थले तमा. वात् । न हि तत्रेष्टपुरोवर्त्तिप्रतियोगिको भेदोऽस्ति यस्याग्रहः प्रवर्त्त- येत् । मैवम् । पुरोवर्त्तिनीष्टभिन्नत्वप्रकारकज्ञान विषयत्वाभावस्य प्रव तकत्वात् सत्यरजतस्थले पुरोवर्त्तिरजतत्वविशिष्टज्ञानसत्त्वेऽपि त न्यायलीलावती प्रकाशविवृतिः शिष्टज्ञानात्मा स्वीकर्त्तव्य इत्यत आह -- भ्रान्तिश्चेति । तथा च बाधका- सोऽप्यसंसर्गाग्रह इति भावः । अभावविशेषणतयेति । न चैवं गृहनि ष्ठाभावप्रतियोगीदं रजतमित्यतोऽप्रवृत्त्यापत्तिः । तत्र च रजतमित्यं. शस्याभावाविशेषणतयोपस्थितिरूपत्वादित्यन्यत्र विस्तरः । पुरोवर्तिनीति | पुरोवर्थगृहीतासंसर्गे यदिष्टभिन्नत्वं तत्प्रकारक. ज्ञानाभावस्येत्यर्थः । अन्यथा रजत एव नेदं रजतमिति ज्ञानात्प्रवृ च्यापत्तेः । न च रजतत्वे रजतनिष्ठाभावप्रतियोगित्वारोपस्तत्राप्येवं प्रवर्त्ततेति वाच्यम्, इष्टतादातासंसर्ग यत्पुरोवर्त्तिनिष्ठा- भावप्रतियोगित्वं तज्ज्ञानाभावस्थापि कारणत्वात् प्रतिबन्धकाभाव .