पृष्ठम्:न्यायलीलावती.djvu/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ न्यायलीलावती नुव्यवहृतिः । सा किं संसर्गविज्ञप्तिपूर्विका असंसर्गाग्रहपूर्विका वा | नाद्यः | अन्यथाख्यातिस्वीकार चमत्कारात् । न द्वितीयः | अनुमानमात्रोच्छेदप्रसङ्गात् ( १ ) | एवं शब्देऽपि ( २ ) वाच्यम् । न्यायलीलावतीकण्ठाभरणम् वह्निसंसर्गज्ञानाद् भवेत्तदा निर्वह्नौ संसर्गज्ञानमित्यन्यथाख्यातिरेव । असंसर्गग्रहादेव तत्र प्रवृत्तिरिति यदि तत्राह -- अनुमानोच्छेदेति । सद- नुमितिस्थलेऽपि असंसर्गग्रहादेव प्रवृत्तिसम्भवादित्यर्थः । एवमना- तोक्ते यदि संसर्गप्रतीतिस्तदा अन्यथाख्यातिः । यदि चासंसर्गप्रहा. देव प्रवृत्तिस्तदाऽन्यत्रापि तथेति शब्दाप्रामाण्यमित्याह – एवमिति । न्यायलीलावतीप्रकाशः प्रवृत्तिप्रतिबन्धकः । एवं रङ्गे निवृत्तावपि । अथ वा रङ्गवृत्तितया यो भेद उपस्थितो यश्च रजतप्रतियोगिको भेद उपस्थितस्तयोर्भेदात्र• हो रजते प्रवृत्तिप्रतिबन्धकः । एवं रङ्गनिवृत्तावपि प्रतिबन्धककुह्यः (?) । मैवम् । तथा हि नाद्यः, प्रवृत्तिविषयस्येष्टतया ग्रहः प्रवर्त्तक इति लघु. विषयतयैव प्रवर्त्तकत्वे सम्भवति बहुविषयतया प्रवर्त्तकतया प्रवर्त्त कत्वे मानाभावात् । न द्वितीयोऽपि, शब्दाभासाद्विपरीतचतुष्के युग- पत्प्रवृत्तिनिवृत्त्यापत्तेः शब्दाद्वजतभेदस्यानुपस्थितेः । अत एव न तृतीयः । अन्यथाख्यातीति । ननु तत्र लिङ्गविशिष्टपक्षज्ञानरूपा नानुमिति. सामग्री किन्तु लिङ्गासंसर्गाग्रहमात्रम् । एवमनाप्तोदीरितपदस्मारि- तपदार्थेष्वपि न योग्यता विशिष्टज्ञानमपि तु तदसंसर्गाग्रहमात्रम् | अत्राहुः । या विशिष्टज्ञानसामग्री सैव प्रवृत्तिहेतुरिति त्वदभ्युपगमः सा चासंसर्गाग्रहरूपेति विषयतया न तत्र वैशिष्टयं कारणतावच्छे. दकमिति दिक् | अनुमानमात्रेति । ननु प्रत्यक्षाभासं परिहृत्य किमित्य न्यायलीलावती प्रकाशाववृतिः अथ वा रङ्गवृत्तितयेति । रङ्गत्वेनाभिमतं रजतमेवात्र रङ्गपदार्थः । न चैवं पूर्वाभेदः पूर्वमनुपस्थितेन रजतभेदेन रजतनिष्ठतयोपस्थितस्य भेद स्य भेदाग्रह इत्युक्तमधुना तूपस्थितयोस्तयोर्भेदाग्रह उच्यत इति भेदात् । ननु तत्रेति । यद्यपि विकल्पदूषणेनायं पूर्वपक्षः प्रकृतफक्किको. परि सम्भवी तथापि द्वितीय पक्षस्याने दूषितत्वादिदमेव सिद्धान्ति नो हृदि विपरिवर्त्तते इत्याखण्डलकोपर्येवायं पूर्वपक्ष इति प्रति (१) अनुमानोच्छेदप्रसङ्गादिति कण्ठाभरणधृतः पाठः । (२) वं शाब्देऽपि वा० ।