पृष्ठम्:न्यायलीलावती.djvu/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ ज्ञप्तिपूर्वक इति चेत्, न, संसृष्टयोरसंसर्गाग्रहस्य संवादिव्यव हारहेतुत्वात्, शाब्देऽपि चानाप्ताप्रणीतवाक्यप्रभवस्मृतिसन्ताना- न्यायलीलावती · न्यायलीलावतीकण्ठाभरणम् वत्वाभ्यां संवादिविसंवादिरूपकार्थ्यवैचित्र्यमिति परिहरति - नेति । स्मृतिसन्तानासंसर्गाग्रहस्येति । स्मर्थ्यमाणपदार्थासंसर्गाग्रहस्येत्यर्थः । ननु एतादृशासंसर्गाग्रहादनाप्तोक्तेऽपि संवादिन्येव प्रवृत्तिः स्यादत उ. कम् अनाप्तप्रणीतेति । आप्तप्रणीतेति वक्तव्ये वेदस्य तन्मतेऽपौरुषेयस्य तदभावात् प्रवृत्तिर्न स्यादिति व्यतिरेकप्राधान्यम् । तथा च शब्दप्रा. माण्यं न स्यादित्यर्थः । यद्वा वैपरीत्यमेवास्तु तथा च भ्रमो विशिष्टज्ञा. न्यायलीलावतीप्रकाशः हे स्मरणे यदि धूमभ्रमानन्तरमपि वयसंसर्गाग्रहात् प्रवृत्तिस्त. दा प्रत्यक्षभ्रमान्न कश्चिद्विशेष इति वह्नि साक्षात्करोमीत्यनुव्यव. साय: स्यान्न त्वनुमिनोमीति | मैवम् । धूमासंसगीग्रहस्य हि स्वातन्त्र्येण निर्वह्नित्वोपस्थितिप्रतिबन्धे सति स्वातन्त्र्येण वह्निम त्वोपस्थितिर्व्यापारः स्यात् लिङ्गज्ञानानन्तरभावित्वप्रतिसन्धाना- च्च न साक्षात्करोमीत्यनुव्यवसायः । संसृष्टयोरिति । लिङ्गलि (ङ्गि?) नोर्यत्र संसर्गस्तत्राविद्यमानासंसर्गाग्रहः संवादिव्यवहारजनकः य त्र दोषात सतोऽपि तस्याग्रहस्तत्र विसंवादिव्यवहार इत्यर्थः । यद्यपि शाब्देऽप्येवं (१) सम्भवति तथापि तत्र गत्यन्तरमाह - शाब्देऽ न्यायलीलावती प्रकाशविवृतिः न्यथाख्यातेरस्वीकारात् । नापि नैयायिकस्य तदुक्तानुमानोच्छेदेड- स्यावतारितत्वादिति चेत्, न, अनुमानोच्छेदमसहमानस्य तस्य तटस्थस्यान्यथाख्यातिमभ्युपेत्यैव पूर्वपक्षित्वात् । यद्यपि सिद्धान्तिन एवमयत्नसि द्वैवान्यथाख्यातिस्तथापि तस्यापि (२) परस्याशयो न युक्त इत्यभिप्रेत्याह – मैवमिति । तथा च मीमांसकरीत्यैव त्वदुक्तमिति भावः । लिङ्गलिङ्गिनोरिति । हेतुसाध्ययोर्यत्र पक्षे संसर्ग इत्यर्थः । लिङ्ग सत्ता च प्रवृत्तौ यद्यपि साक्षानोपयुज्यते तथाप्यविद्यमानलिङ्ग संसर्गाग्रहद्वारा साऽप्युपयुज्यत इत्याशयेनोक्का यद्यप्येवमिति । अनया रीत्येत्यर्थः । तथा चाविद्यमानपदार्थासंसर्गाग्रहस्तत्रापि नियामकः ( १ ) यद्यप्येषं शाब्दऽपि इति विवृतिधृतः पाठः । (२) पित्रातस्यापि प० ।