पृष्ठम्:न्यायलीलावती.djvu/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ न्यायलीलावती पर्ययत्वं वा । नाद्यः । अनेकान्तात् । भवति [हि] प्रत्यक्षाभासाद्वि- लक्षणस्तर्कदृष्टान्तस्मरणदूषणाभासो न तु प्रत्यक्षेतरप्रमाणप्रति योगिकः । अत एव न द्वितीय: । दृष्टान्ताभासादेरपि विपर्यस्त - व्यवहारजनकस्य प्रमाणप्रतियोगित्वाभावात् । यो यद्विलक्षणः प्रमाणाभास इति विशेषणादयमदोष इति चेत्, न, शब्द लिङ्ग- योः प्रामाण्यसिद्धिमन्तरेण शब्द (१) लिङ्गाभासयो : प्रमाणाभास- स्वासिद्धेः । शब्दाभासो (२)हि पदार्थस्मृतिसन्तानासंसगग्रिह- रूपत्वात् स्मरणाभासः स्यात् । शब्दप्रामाण्यसिद्धौ च तदाभास- , न्यायलीलावतीकण्ठाभरणम् णयोः प्रतिरूपकौ भविष्यत इति शब्दानुमानयोः प्रमाणत्वं सिध्यती. स्यर्थः । अनेकान्तादिति । शब्दानुमानाभासौ प्रमाणप्रतिरूपकौ प्रत्यक्षा- भासविलक्षणाभासत्वात् । अत्र सामान्यतो व्याप्तिः - यद्यदाभासवि लक्षणाभासः स तद्विजातीयप्रमाणप्रतिरूपकः यथा अनुमानाद्याभास- विलक्षणः प्रत्यक्षाभासस्तद्विजातीयप्रमाणप्रतिरूपक इति । एतच्च त कांभासादाव नै कान्तिक मित्यर्थः । तर्काभासः प्रमाणाभास एव न भवतीति न तत्र व्यभिचार इत्याह - यो यदिति | साध्यविशेषो (षणा?) दयमहेतुरित्याह - नेति । तदेव स्फुटयति - प्रामाण्यसिद्धिमन्तरणेति । शब्दस्य प्रामाण्यं चेन सिद्धं तदा स्मर्थ्यमाणपदार्थ संसर्गाग्रहमात्रोपयोगी शब्द इति तदाभासः स्मरणाभावपर्थ्यवसित इत्याह - शब्दाभासो हीति | ननु शब्दात् पदार्थानां संसर्ग एव भासते अन्यथा ततः प्रवृत्ति रेव न स्यादित्यत आह - शब्देति । तर्हि प्रवृत्त्यन्यथाऽनुपपत्त्या शब्दाभा- - न्यायलीलावतीप्रकाशः न त्विति । प्रत्यक्षेत रद्दष्टान्तादिरूपप्रमाणप्रतियोगिक इत्यर्थः । प्रमाणाभास इति । दृष्टान्तादश्च न प्रमाणत्वमित्यर्थः । स्मृतिसन्तानेति। स्मर्थमाणपदार्था- न्यायलीलावती प्रकाशविवृतिः दिमूले उपनयेन व्यज्यमानज्ञानस्यामासत्वस्य विकल्पः । तदाभास स्यापीति मूलम् | सत्यस्थले विशिष्टज्ञानस्य प्रवृत्तिजनकत्वावधारणा. (१) शाब्दलि० । (२) शान्दामा |