पृष्ठम्:न्यायलीलावती.djvu/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण - सविवृतिप्रकाशोद्भासिता ४२९ स्याऽप्यन्यथाख्यातिस्वभावत्वसिद्धेः । न (१)तृतीयः । अन्यथाख्या- तिस्वीकारात | यश्चाभासो नासौ संसर्गवेदनप्रतियोगिकः यथेदं रजतमित्याभासः | आभासश्च शाब्दादिः । यः संसर्गव्यवहारः सोऽसंसर्गाप्रतिभासपूर्वकः यथा रजतव्यवहारभेदः । तथा च विवा- न्यायलीलावतीकण्ठाभरणम् सादपि संसर्ग एव भासत इत्यन्यथाख्यातिसिद्धिरित्यर्थः । अनुमान- स्यापीयमेव गतिरिति भावः । तर्हि विपर्यस्तत्वभनुमानादिबोध्य संसर्गविपरीत संसर्गबोधकत्व मनुमानाद्याभासत्वमिति दूषयति - ना. पीति । इदानीं सत्प्रतिपक्षरूपतया प्रत्यक्षस्यापि प्रामाण्यमास्कन्दति- यश्चेति । यथेदं रजतमिति प्रत्यक्षादावपि विशिष्टभ्रमानुदयात् असं- सर्गाग्रहादेव प्रवृत्तिसम्भवात् भ्रमस्थलवदित्यर्थः । प्रमास्थले यत्सं- सगव्यवहारः प्रवृत्तिव्यवदेशश्च तयोरप्यसंसर्गाग्रहपूर्वकः स्याद् यदि भ्रमोऽन्यथाख्यातिरूपो नाङ्गीकार्य इत्याह - यश्चेति । यो यद्विलक्षण न्यायलीलावतीप्रकाशः ग्रहरूपत्वादित्यर्थः । संसर्गवेदनप्रतियोगिक इति । संसर्गबोधकप्रमाणप्रति. योगिक इत्यर्थः । यथेदमिति । शुक्तौ रजतत्वस्यासमवायात् तत्र प्रमाणाप्रसरादित्यर्थः । यथा रजतेति । यथा शुक्तौ रजतव्यवहारो न व्यवहत्तव्य संसर्गज्ञान निबन्धन इत्यर्थः । अनुमानप्रामाण्यानभ्युपगमे न्यायलीलावतीप्रकाश विवृतिः दिति भावः । शुक्तौ रजतत्वस्येति । यद्यप्येवं शब्दाभासस्थलेऽपि प्रमा णाप्रसरस्योभयवादिसिद्धत्वात सिद्धसाधनम् । यदि च तज्जन्यप्रमा. वृत्तिज्ञानत्वव्याप्यजातिमत्वाभावः साध्यस्तदा दृष्टान्तासिद्धि- स्तथापि समवायातीन्द्रियतया संसर्गविषयकप्रमावृत्तितादृशजाति. मत्त्वाभावे साध्ये भवति प्रत्यक्षाभासस्य दृष्टान्ततेति भावः । यद्य पोत्थमपि शुक्तौ रजतत्वस्येत्यादिहेतुरयुक्त एव तथापि दोषवशाद. तीन्द्रियोऽपि रजतत्वसमवायः शुक्तौ भासत इति तदेवादाय दृष्टा. न्तासिद्धिरिति यदि कश्चिद्धान्त्या देशयेत्तदा तं प्रतीदमुक्तम् । तथा च तत्र संसर्गवेदन स्वीकारेऽपि न तस्य प्रमात्वमिति न दृष्टान्तासि द्धिरिति भावः । यथा शुक्ताविति । यद्यपि समवायातीन्द्रियतया रजते (१) नापीतिकणाभरणधृतः पाठः ।