पृष्ठम्:न्यायलीलावती.djvu/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्यायलीलावतीकण्ठाभरण- सीववृतिप्रकाशोद्भासिता ४३१ , ननु चैवमन्यथाख्यातिरनुपपन्ना, कारणाभावात् । दोषाः कारणमिति चेत्, न, दोपाणां यथार्थज्ञानजननप्रतिबन्धसा मर्थ्यात् (१) विपरीतज्ञाने त्वसामर्थ्यात् । न खलु दुष्टं कुटजवी जं न्यग्रोधधानायै (२) कल्प्यते | दवदहनद ग्धवेत्रबजिस्य कदली- काण्ड जनकत्ववद् भस्मकदुष्टजठरानलस्य बहुतरानपाक हेतुत्वव चच दोषाणां विपर्ययहेतुतेति चेत्, न, दग्धस्यावेत्रबीज स्वात् । अन्यस्यैव विजातीयफलहेतुत्वात् । प्रभूतदाद्यद- हनशक्तेरनलेषु स्वाभाविक्या अन्नरसजननशक्त्या अभि न्याय लीलावतीकण्ठाभरणम् - ननु विशिष्टज्ञाने विशेषणविशेष्येन्द्रिय सन्निकर्षः कारणं प्रकृते च विशेषणस्य रजतत्वस्या सशिकर्षाद्विशिष्टभानं न स्यादित्याह- नन्विति । असन्निकृष्टमपि दोषवशाद् भासत इत्याह - दोषा इति । प्रमा णप्रतिबन्धकत्वं दोषत्वमित्यभिप्रेत्याह – नेति । दुत्रमिति | भज्जैनापादि. तदोषवदित्यर्थः । 'न्यग्रो (ध?) धाना' वटाङ्कुरः । दोषाणां विपरीतका र्थ्यजनकत्वमुदाहरति - दवेति । 'दबो'वनम् । 'भस्मको' रोगविशेषः । दाहात्तद्वेत्रवीजं विनष्टमेव तद्भस्मनस्तु कदलीजनकत्वं रसार्जनश. क्त्या जीवनादृष्टाधीनतया स्वाभाविकी जठरानलस्य दाहकत्वशक्तिर्या प्रतिवद्धाऽऽसीत् सैव भस्मकेन दाहशक्तिर्न जन्यते किन्तु रसार्जनश तेः प्रतिबन्ध एव क्रियते इति विपरीतकार्य्यजनो (ननेन ?) तदुदाहरण - न्यायलीलावतीप्रकाशः प्रत्यक्षान्यथाख्यातिमाक्षिपति - ननु चेति । रजतरजतत्वसा. क्षात्कारे इन्द्रियेण रजत संयोगतत्संयुक्त समवाययोः कारणत्वा- दित्यर्थ: । 'धाना' अङ्कुरः । अन्यस्यैवेति । वेत्रवीजभस्मन एव न्यायलीलावती प्रकाश विवृतिः ऽपि न स्यादिति भावः । अनुमित्यादौ लिङ्गा संसर्गाग्रहादे: कारणस्य सम्भवाद्विशेषपरतामाह - प्रत्यक्षान्यथाख्यातिमिति । दाहो यदि रूपपरा. वृत्तियदि वा भस्मीभाव उभयथापि नोक्तं विनाशकत्व मित्यन्यथा ( १ ) प्रतिबन्धे सामर्थ्यात् । ( २ ) ०लु दुष्टं न्यग्रोधवीजं कुटजधानाय कल्पते । भृं कुट० |