पृष्ठम्:न्यायलीलावती.djvu/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ न्यायलीलावती भवे भस्मकेन रसहेतुशक्ति प्रतिवन्धे प्रभूतदाह्यदहनशक्तेरन भिभवात् । तदेतदपेशलम् | यथा दाहस्य वेत्रवीजविनाशकत्वं रूपान्तरजनकत्वं च तथा दोषाणामप्ययथार्थज्ञानजनकत्वमन्य- विज्ञानप्रतिबन्धकत्वं (१) च स्यात् । दहनस्य प्रचुरदाहशक्तिः किं स्वरूपमुततीन्द्रियं रूपमथ सहकारिभेदः । तत्र न तावदा- द्यः । तथा सति रसार्जनदाह सामर्थ्य योर भेदेनाभिभाव्याभि भावकभावाभावात् । न द्वितीयः । असिद्धेः । न तृतीयः | भ स्मकाभावस्य रसजननसहकारित्वेन तदभावस्य प्रचुरदाहजन- कत्वमिति दोषकारणतापत्तेः । यथा वाऽविसंवादिव्यवहारोप- न्यायलीलावतीकण्ठाभरणम् मित्याह - नेति । 'दाहो' ऽग्निसंयोगः। 'अन्यविज्ञप्तिः प्रमा। अतीन्द्रियमिति । मीमांसकाभिमता शक्तिरित्यर्थ: । जठरानलस्वरूपमेव रसार्जनसा मर्थ्य तदा नाभिभाव्याभिभावकभाव इत्याह - तथा सतीति । स्व रूप सती त्यर्थः । तदभावस्य भस्मकस्य यथा अस्माकं भ्रमज्ञाने दोषकारणत्वं तथा तव विपरीतव्यवहारइत्याह- इ - यथा वेति । विशेषणज्ञानं विशे न्यायलीलावतीप्रकाशः कदलीकाण्डजनकत्वादित्यर्थः । यथेति । 'दाहो'ऽग्निसंयोगः करणव्युत्पत्तरेकस्यैवाग्निसंयोगस्य पूर्वद्रव्यनाशकत्वं द्रव्या न्तरवर्त्तिरूपजनकत्वं चेति मतमाश्रित्यैतदुक्तम् । तथा सतीति । दाहसामर्थ्यवद्र सार्जनशक्केरपि दहनस्वरूपात्मकत्वादित्यर्थः । 'अ सिद्धेः' शकेः पदार्थान्तरस्य निरासादित्यर्थः । भस्मकाभावस्येति । अ- भावस्य भावत्वादित्यर्थः । ननु भ्रमो न विशिष्टज्ञानं किन्त्वसंरुर्गाग्र. हः सप्रतियोगिनि बुद्धिस्थेऽधिकरणस्वरूपं तच्चाजन्यमेवेति न दोष इत्यत आह - यथा वेति । धियामौत्सर्गिकस्य प्रमात्वस्य बाधकैकायोग्य. न्यायलीलावतीप्रकाश विवृतिः व्याचष्टे -दाह इति । “पुनरन्यस्मादग्निसंयोगात्पाकजा जायन्त" (२) इति भाध्यविरोधमाशङ्कयाह - एकस्येति । ननु भ्रम इति । यद्यपि भ्रमो विशिष्टशा. ( १ ) ०नजननमन्यविज्ञप्तिम | ( २ ) प्रशस्तपादभाष्यम्, पाकजोत्पत्तिविधानम् ।