पृष्ठम्:न्यायलीलावती.djvu/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४३३ हारशीलानां विज्ञानानां दोषवशात् तदजननेऽपि विसंवादिव्यव हारप्रसवक्षमत्वं तथैव तदपि स्यात् । अयथार्थत्वे ज्ञानस्य ज्ञान. मात्रेऽनाश्वासप्रसङ्गः (१) स्यादिति चेल, न, विसंवादिव्यवहारज- नकत्वेऽपि तुल्यत्वात् । यत्र विशेषदर्शनं संशयहेतुदोषानुपल- म्भो वा न तत्र व्यवहारविसंवादशङ्केति चेत्, तुल्यमयथार्थ- विषयत्वेऽपि । स्वाभाविकं ज्ञानस्य संवादिव्यवहारजनकत्वमा न्यायलीलावतीकण्ठाभरणम् ध्यसन्निकर्षः तदुभयासंसर्गाग्रहश्च विशिष्टज्ञानकारणं न तु विशे व्यासन्निकर्षोऽपीति न कारणाभाव इति भावः । दोषान्तरमन्यथा- ख्यातावाशङ्कते - अयथार्थत्व इति । अनाश्वासः स्यादिति । तथा च निष्कम्प- प्रवृत्तिः कापि न स्यादिति भावः । यथार्थस्यापि ज्ञानस्य विसंवा दिव्यवहारजनकत्वं चेत्तदा तुल्य एवानाश्वास इत्याह - नेति । प्रथम मनाश्वासेऽपि प्रामाण्यग्रहादाश्वासः स्यात् प्रामाण्यग्रहोयायः सम एवेति भावः। स्वतः प्रामाण्यं तु अदूर एव प्रतिक्षिप्तमिति हृदयम् । न्यायलीलावतीप्रकाशः त्वात्तथा स्वभाव इत्यर्थः । अनाश्वासेति । तथा च प्रवृत्तिमात्रस्य प्रा. माण्यसन्देहादप्युपपत्तौ बहुवित्तस्य (व्य ?) यायाससाध्ये कर्मणि प्रवृ त्तिर्न स्यादित्यर्थः । अयथार्थत्वेऽपि तुल्यमिति स्फुटतयोपेक्ष्यान्य न्यायलीलावती प्रकाशविषृतिः नमित्येव पूर्वदृष्टान्तेन साधितं तत्र च बाध इति सन्धानकल्पनेना- भ्रमदृष्टान्तेनापि सङ्गतिः, तथापि पूर्वदृष्टान्तः स्वमतेनैव भाष्यविरो- धादसङ्गत इति तात्पर्यम् । तथा स्वभाव इति । स्वभावश्च संवादिव्यवहार. जनकत्वं दोष साहित्येन भ्रमजनकत्वमित्येवंरूपः । तथाच तद्वत्स्वभा वतो ज्ञानहेतूनां प्रमाजनकत्वं दोषसाहित्येन च भ्रमजनकत्वं स्यादि. त्यर्थः । तद्विशेषतद्विशेषस्येति (?) । विशेष्यसश्निकर्षत्वेनैव सामान्यकारण. तेति रजतस्य विशेषणतास्थले रजतसंयोगस्याकारणत्वात्, विशेष्यी. भूतशुक्तिसंयोगस्यैव तथात्वादिति भावः । नन्वनुभवव्यतिरेकाभ्यां ( १ ) अनाश्वासः स्यादिति कण्ठामरणसम्मतः पाठः । ५५ न्या०