पृष्ठम्:न्यायलीलावती.djvu/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४३५ नाद्यः । अतीतादेरविषयतापत्तेः । न द्वितीयः | रजतप्राप्तिवद्रज- ताभावप्राप्तिव्यवहारस्यापि जननाद्रजताभावविषयताप्रसङ्गात् । तृतीये तु पुरोवर्तिरजततादात्म्यविषयत्वमसम्भावितमेव, तन्नि- यतव्यवहारजननाभावादिति चेत्, न, यत्र यस्येच्छाप्रयत्नजन- " न्यायलीलावतीकण्ठाभरणम् यतापत्तेरित्यपि द्रष्टव्यम्। यथा सत्यरजते रजत- प्राप्तिस्तथा रजतभ्रमे रजताभावप्राप्तिरपीति तस्यापि विषयत्वप्र सङ्गात्तत्र प्रवृत्तिरेव न स्यादिति भावः । असम्भावितमिति । तत्तादा. त्स्येऽस्यासम्भावितत्वेन तन्नियत व्यवहाराभावादित्यर्थः । यत्र यस्येति । - ( . न्यायलीलावतीप्रकाशः त्राक्षिपति - ननु चेति । रजतप्राप्तिवदिति | सत्यज्ञाने यथा रजतस्य प्राप्ति- रिति रजतं विषयस्तथा विसंवादिज्ञ ने रजताभावस्थापि प्राप्तेः सो- sपि विषयः स्यादिति ततः प्रवृत्तिर्न स्पादित्यर्थः । तत्रियतेति । शुक्ति रजततादात्म्यस्यात्यन्ता सत्त्वेनाव्यापकतया तयाण्यव्यवहाराजनक- वादित्यर्थः । यत्रेति । ननु यत्रति विषय सप्तमीत्वात् येन वा निरूपण- मित्यत्र च तद्विषयेण तन्निरूपणादात्माश्रयः, उपेक्षाज्ञानाव्यातिश्च न्यायलीलावती प्रकाशविवृतिः त्वेन लाघवात्कारणतेति रजतविषयसाक्षात्कारे रजतसंयोगो हेतुः "यत्सामान्ययोरिति” न्यायादिति चेत्, न, गुरुमते रजतानुमितेऽपि रजतसाक्षात्कारत्वेन व्यभिचारात् । न च रजतावच्छेदेन यत्साक्षा. त्काररूपं तत्र रजतसंयोगो हेतुर्न त्वेवमनुमितिरिति वाच्यम्, तर्हि तवैव रीत्या साक्षात्कारा साक्षात्काररूपात्मकमेकं ज्ञानमन्यथाख्या- तिरस्तु, कारणबाघस्य निरस्तत्वात् । अनुभूयमानरजतारोपस्थले च क्षुतरान ( सुतरां न ? ) कारणबाव इति तदाप्यन्यथा ख्यातिरप्रत्यू. हा। न च विशेष्यवृत्तिविशेषणज्ञानादिकं तव यत्प्रमाप्रयोजकं तदेव लाघवेन ज्ञानसामान्यहेतुरिति कारणबाघ इति वाच्यम्, ज्ञानवैचित्र्या. सिद्धौ तस्य कारणत्वे मानाभावात् । तत्सिद्धौ चोपजीव्यविरोधेन तस्य सामान्याकारणत्वादित्यन्यत्र विस्तरः । प्रवृत्तिनं स्यादिति। रजतार्थिप्रवृत्तिर्न स्यादिति । नन्देवं घटज्ञानस्यापि