पृष्ठम्:न्यायलीलावती.djvu/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ४३७ त्कारिणो ज्ञानस्य गोचरो नाकरणं रजतमिति चेत्, न, प्रत्यभिज्ञाया अपि (१) गोचरत्वात् । यदसत्तन्त्र प्रकाशते यथा व्योमकमलम् । असच्च पुरोवर्त्तिरजततादात्म्यमिति न्यायलीलावतीकण्ठाभरणम् प्रागवस्थाविषय इत्याह - प्रत्यभिज्ञायामिति । प्रत्यभिज्ञानमपि स्मृत्यनु भवरूपज्ञानद्वय मेवेति न वाच्यम्, अभेदोच्छेदापच्या तदेकत्वस्य व्यव स्थापनात् । तथा च तदेकं संस्कारेन्द्रियाभ्यां जन्यते तथा भ्रमो Sपीत्यविशेषात् यथाव्योमकमलमपि दृष्टान्तोऽभासमानत्वे साध्ये व्याहतः, भासमानतयैव दृष्टान्तत्वात्, तथापि सदुपरागेणाभासमा• नत्वस्य साध्यत्वात् । असत्ख्यात्यवष्टम्भेन च दृष्टान्तत्वमित्याविरोधः। न्यायलीलावतीप्रकाशः मेव तद्विषयत्वम् । न च निर्विकल्पकाव्याप्तिः, घटज्ञानत्वेनैव तस्या- प्यनुव्यवसायकारणत्वात् न च संशयानुपपत्तिः घटतज्ज्ञानयोः स्वरूपग्रहेऽपि तदीयत्वं तद्विषयत्वं न गृहीतमिति तद्विषयत्वे सन्देहः । तदीयत्वं च सम्बन्धिना तत्सम्बद्धस्वभावत्वं सम्बन्धं विना कथं तदीयत्वं सम्बन्धस्यैव स्वभावत्वात् । यथा तवैव विशे- षणतायामन्यथानवस्थानात् । कारणमेवेति । विसंवादिरजतप्रत्यक्षे चन कारणं रजतमिति न विषय इत्यर्थः । यत्किञ्चित्कारणं प्रत्यक्ष विषयः, तदेष्टापत्तिः भ्रमविषयरजतस्यापि तत्त्वात् । अथ तत्कारण- मेव तद्विषयस्तत्राह — प्रत्यभिज्ञायामिति । प्रत्यभिज्ञावत् संस्कारेन्द्रिया- भ्यां विशिष्टज्ञानं भविष्यति न च प्रत्यभिज्ञा न ज्ञानद्वयम्, अभेदो. न्यायलीलावतीप्रकाशविवृतिः त्वमेव विषयित्वमित्यर्थः । घटज्ञानत्वेनेति । न चैवं निर्विकल्पकस्यापि फलोपाधानापत्तिः सम्बन्धि तावच्छेदकप्रकारक सम्बन्धिज्ञानस्य स. सम्बन्धिक पदार्थधी हेतुतया तद्विरहादेव तद्विरहात् । यद्यपि घटना. नत्वं घटगोचरज्ञानत्वमिति पूर्ववदात्माश्रयः। न च घट एवावच्छेदकः तस्यापि सम्बन्धाकांक्षायां विषयतायामेव पर्यवसानात् । किञ्च घट. ज्ञानत्वस्यावच्छेदकत्वे विशिष्टज्ञानव्यवहितप्राक्का लिक निर्विकल्पक. ( १ ) प्रत्यभिज्ञायां पूर्वकालताया अपि ।