पृष्ठम्:न्यायलीलावती.djvu/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती ४३८ चेत्, न, गगनकमलस्यापि शब्दाभासप्रतिभासित्वेन दृष्टान्त स्य साध्यविकलत्वात् । पुरोवर्तिरजततादात्म्यप्रतीतौ चान्यथा. ख्यातिस्वीकारात् । अप्रती तावाश्रयासिद्धेः । असंसर्गाग्रहवलेन च व्यवहारे (१)तत्रासत्त्वस्याप्रतीतौ हेतोरपक्षधर्मत्वात् । असो नासंसर्गाग्रहात् पक्षधर्मताव्यवहार इति चेत्, न, सत्वेनापि न्यायलीलावतीकण्ठाभरणम् - सदुपरागेणासतोऽपि भानस्वीकारादित्याह - गगनेति । किञ्च पुरो- बतिरजततादात्म्यस्यैव पक्षत्वं प्रतीत्यप्रतीतिभ्यां व्याहतमित्याह - पुरोवतीति । पक्षो न प्रतीयते किन्तु संसर्गाग्रहात् व्यवाहियते परमि. त्याह - असंसर्गेति – असत्वं यत्वया हेतु कृतं तदप्यप्रतीयमाने पक्षे न प्रतीयेतेति हेतुराश्रयासिद्धः स्यादित्यर्थः । पक्षे हेतोरसंसर्गाग्रहा- धीन एव पक्षसत्त्वव्यवहार इति शङ्कते - सत्वेनापीति । असत्त्वाससं गग्रहवत् सत्त्वासंसर्गाग्रहोऽध्यस्तीति सत्त्वं हेतु: स्वरूपासिद्धः - • न्यायलीलावतीप्रकाशः च्छेदापत्तेः, तस्य तदेकमानत्वात् । न च संस्कारेन्द्रिययोः समानवि षयत्वेन मिथः सहकारित्वं तत्तांशे तदभावात् । न चातिप्रसङ्गः, भे- दाग्रहस्यापि तद्धेतुत्वादित्यर्थः । 'तथापत्तेः' असंसर्गाग्रहापत्तेरित्य- र्थः । तथा चासत्त्वं हेतुः स्वरूपासिद्ध इति भावः । पूर्व प्रत्यक्षविषय. त्वे कारणत्वं व्यापकमित्युक्तमधुना षोढ । प्रत्यासत्या इन्द्रिय सन्निक न्यायलीलावतीप्रकाशविवृतिः • साक्षात्कारापत्तिः, तत्रोक्त सामग्रीविरहाभावात्, तथापि स्वरूपसम्ब न्धविशेष एव विषयता स च ज्ञानरूप एवेति प्रागुक्त एव तात्पर्यम् । असंसर्गप्रहापत्तेरिति । त्वयाऽली कत्वाभ्युपगमादिति भावः । तथा ( चा? ) सस्वमिति | पुरोवर्त्तिरजततादात्म्यस्य पारमार्थिकस्यैव भानाभ्युपग. मात् । भ्रमत्वं तु व्यधिकरणप्रकारकत्वेनाऽन्यथा भ्रमानुव्यवसायस्य भ्रमवापतेरिति भावः । पूर्वमिति । कारणत्वमेव विषयतानियामकमिति प्रागुतमधुना तु संयोगाद्यन्यतमप्रत्यासत्तिमत्वमेव तनियामकम् । तश्च कारणत्वनियतमिति परम्परया तन्नियामकमित्युच्यत इति भेद इति ( १ ) च तद्व्यवहारे स०