पृष्ठम्:न्यायलीलावती.djvu/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्पायललावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ४३९ तथापत्तेः । असतोऽकारणत्वात्कथं साक्षात्कारिप्रतीतिविषयत्व- मिति चेत्, न, संस्कारोपनीतस्याकारणस्यापि प्रत्यभिज्ञायां तत्तांशस्य प्रतीतिविषयत्वात् । प्रत्ययत्वं त्वदृष्टसामग्री प्रसूतत्वम युक्तसत्य भाव मित्य सिद्धप्रतिवन्धमित्यास्ताम् । न्यायलीलावतीकण्ठाभरणम् सत्वास संर्गाग्रहेण सत्वव्यवहारस्यैव सिद्धेरित्यर्थः । साक्षात्कारिणि कारणमेव विषयो रजततादात्म्यं चाकारणमतो विषयो न स्यादिति शङ्कते – असत इति । रजततादात्म्यं सदेव संस्कागेपनीतमिह भा. सत इत्यदोष इति परिहरति - नेति । सर्व्वासां धियां याथार्थ्यसाधकं प्रत्ययत्वं हेतुस्वरूपमुपाध्युपन्यासेन दूषयति - प्रत्ययत्वन्त्विति । दोषाज- - - न्यायलीलावतीप्रकाशः टमेव प्रत्यक्षविषयस्तश्च कारणमेवेति विवक्षित्वाह-असत इति । उक्त युक्तिमभिप्रेत्याह - संस्कारेति । प्रत्ययत्वस्य ज्ञानमथार्थत्वसाधकत्वं दुषयति - प्रत्ययत्वमिति दोषाजन्यत्वमुपाधिरित्यर्थः । न च दोषजन्य- त्वमसिद्धं भ्रमे दोषस्थान्वयव्यतिरेकात् । न चासंसर्गाग्रहेण तदन्यथा. सिद्धिः, तस्यासिद्धिः, तस्याधिकरणरूपत्वेनासाध्यत्वात् ज्ञानरूपत्वे च तस्य प्रमात्वात् न दोषजन्यत्वम् । एतच्च स्वमतेनोकं परेषां सर्व- ज्ञानानां यथार्थतया दोषाजन्यत्वं साधनव्यापकम् । किञ्च दोषस्य विशिष्टज्ञानमेव व्यापारः प्रवृत्तौ तद्धेतुत्वात् नासंसर्गाग्रहः कल्पनीय कारणभावत्वादिति भावः । मानं तु अन्यथाख्यातौ प्रत्यक्षमेव कारणबाधाभावात् । इदं रजत- तथा जानामीत्यनुव्यवसायाद्वेिषयतायां तस्यैव मानत्वात् तस्य च प्रमाणत्वनियमात् । न च भेदाग्रहाद्रजतज्ञानविषयत्वासंसर्गाग्रहः शुतो भेदग्रहेऽपि शुक्तिर्मया रजतत्वेन ज्ञातेत्यनुव्यवसायात् । न च विचा- रसाध्या संसर्गग्रहबाध्योऽयमसंसर्गाग्रहस्तेन विचारं विनापि भेदग्रहे- न्यायलीलावती प्रकाशविवृतिः भावः । न चासंसर्गप्रहेणीत । विशिष्टज्ञानं तत्र नास्त्येवातो दोषाजन्यत्वं साधनव्यापकमिति भावः । 'ज्ञानरूपत्वे' अधिकरणज्ञानरूपत्वे । प्रवृत्तौ तद्धेतुत्वस्येति ( त्वादिति ? ) । उक्तयुक्तेरिति शेषः | विचारसाध्येति । अन्य.