पृष्ठम्:न्यायलीलावती.djvu/५१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती न्यायलीलावतीप्रकाशः ऽव्यवतिष्ठत इति वाच्यम् इदं रजततया जानामीत्यत्र शुक्तिकर्मकरज- तत्वप्रकारकशाना संसर्गाग्रहस्यात्मन्यसम्भवात् तादृशज्ञानाप्रसिद्धेः । अनुमानमप्युच्यते ज्ञानत्वं विशेष्यावृत्तिप्रकारक ( प्र ? ) वृत्तिहेतु प्र. त्यक्षात्मविशेषगुणवृत्तिधर्मत्वात् इच्छात्ववत् | साध्यप्रसिद्धिरक्तैव । न व द्वेषत्वे व्यभिचारः, अशत्रावेव शत्रु द्वेष्मीत्यनुभवात्तत्रापि तत्सि- द्धेरिति सामान्यतः, विशिष्य तु रजतेच्छाजन्यशुक्तिविषयक प्रवृत्तिज. नकं रजतज्ञानं शुक्तिविषयकं शुक्तिविषयक प्रवृत्तिहेतुज्ञानत्वात शु. क्त्यर्थ (र्थि?)न इयं शुक्तिरिति ज्ञानवत् पक्षविशेषणमहिम्ना न समूहा. लम्बनेनार्थान्तरं तथाविधमिदं ज्ञानं चारजतत्वप्रकारकं रजतेच्छा. जन्यप्रवृत्तिहेतुज्ञानत्वात् सत्यरजतविषयकेदज्ञानवत् । न च ग्रहण- स्मरणयोर्विशिष्टज्ञानस्य वा पक्षत्वे बाघ आश्रयासिद्धिर्वा शुक्तिविष यप्रवृत्तिहेतुज्ञानत्वेनोभयसिद्धेन पक्षत्वात् । अन्यथा साध्यतदभाव. वतः पक्षत्वे अनुमानमात्रोच्छेदापत्तेः । न च विसंवादिप्रवृत्यजनकत्व. मुपाधिः, तथाविध इदंशाने रजतज्ञाने च साध्याव्यापकत्वात् नापि न्यायलीलावती प्रकाश विवृतिः थाख्यातिबाधक रूपविचारसाध्यो यः शुक्तौ रजतत्वप्रकारकज्ञानवि षयत्वासंसर्गग्रहस्तद्वाघ इत्यर्थः । तादृशज्ञानाप्रसिद्धेरिति । यद्यपि खण्डशः प्रसिद्धिरस्त्येव तथापि शुक्तिकर्मकत्वरजतत्वप्रकारकत्वयोः परस्पर- विरोधाचरणात् कथमन्यतररूपोपस्थितावन्यतरारोप इति भावः । प्रवृत्तीति । अत्र सुखे व्यभिचार इति प्रवृत्तिहेत्विति । धर्मत्वादौ व्यभि चार इति प्रत्यक्षेति । आत्मपदविशेषपदे सम्पातायाते | धर्मपदं च जातिपरं गुणविभाजकोपाधिपरं वा । अतो न प्रमादौ व्यभिचारः । यत्तु आत्मपदं स्वज्ञानद्वारा प्रवृत्तिहेतौ रूपादौ व्यभिचारवारकमिति तत्तुच्छम्, एवं सति सुखे व्यभिचारापत्तेरिति दिक् । केचितु प्रत्यक्षत्वं जातिविशेषणमत्त आत्ममनः संयोगमादाय संयोगवे व्यभिचारवारणाय विशेषपदम् | आत्मपदं तु पूर्ववदेवेति वदन्ति | रजतेच्छेति । अत्र शुक्तिरित्यादिकं (१) ध्रुवं कृत्वा पूर्वोत्तरदलयोर्वि कल्पेनान्वयादुभयथा पक्षतावच्छेक निरुक्तिः । इदंज्ञान इति प्रथमे रजतज्ञान ( १ ) शुकीत्यादिकं ।