पृष्ठम्:न्यायलीलावती.djvu/५१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४४१ स चायं सादृश्यानपेक्षस्तिक्तो गुड इत्यादौ भ्रमः | अन्य- न्यायलीलावतीकण्ठाभरणम् न्यत्वमत्रोपाधिरित्यर्थः । प्रकृते च दोषजन्यत्वस्यान्वयव्यतिरे कासवा दिति भावः । असंसर्गाग्रहस्य तन्मतेऽधिकरणरूपत्वान्न तेनान्यन्यासि द्धिः आरोप्यारोपविषयसारूप्यज्ञानमारोपे तन्त्रमिति किरणावलीकारमत. मास्कन्दति - त - सचायमिति । न हि शुक्तिरजतसारूप्यवदत्रापि सारूप्यम. स्तीति भावः । ननु रजतभ्रमे सारूप्यनिबन्धनत्वदर्शनात् अन्यत्रा. पि तत् कल्प्यतामित्यत आह - अन्यत्रापीति । अन्यथासिद्धं तत्रापि न्यायलीलावतीप्रकाशः दोषजन्यत्वं परेषां ज्ञानमात्रस्य तादृशतया साधनव्यापकत्वात् । अ न्यथा तयोरेव साध्याव्यापकत्वात् । नाण्यप्रयोजकत्व प्रवृत्ति प्रति वि. शिष्टज्ञानत्वेन हेतुत्वस्य व्यवस्थापितत्वादिति संक्षेपः । अधिकं तु न्यायप्रथमाध्यायनिबन्धप्रकाशे विपञ्चितमस्माभिः । सर्वत्रारोपे आरोग्यारोपविषययोः सारूप्यग्रहः कारणमिति मतं व्यभिचारान्निराकरोति स चेति । विपर्यय इत्यर्थः । न च गुडे तितर- सससंग रोपेऽध्य संसर्गाग्रहः संसृष्टस रूप्यमस्येवेति वाच्यम्, अ. संसर्गाग्रहस्य स्वरूपसत एवारोपहेतुत्वात् सारूप्यस्य च ज्ञातस्य तत्त्वात् संसृष्टाविमाविति प्रतीत्यापत्तेश्च । नन्वनुभूयमानारोपे व्यभि- चारेऽपि स्मर्यमाणारोपे तदभावात् कारणत्वं स्यादित्यत आह - अन्यत्रापीति । तथा हि सारूप्यं न स्वरूपे सदेव भ्रान्तौ हेतुः, आरोप- न्यायलीलावतीप्रकाशविवृतिः इति द्वितीये । प्रकृति (वृत्ति?) तुल्यन्यायतया लिङ्गा संसर्गाग्रह पवाऽनु. मितिसामग्रीति सामग्रीबलादेवाऽन्यथाख्यातिसिद्धिः। अथ लाघवेना. नुमितौ विशिष्टज्ञानं कारणं तर्हि तद्वदेव प्रवृत्तावपि तत्कारणमिति कारणत्वेनैवाऽन्यथाख्यातिकारणबाधस्यानिरस्तत्वेन गौरवस्य प्रामा• णिकत्वाभावादित्यभिसन्धायाह - सङ्क्षेप इति । तितो गुड इत्यादावेव सादृश्यानपेक्ष इति भ्रमं निवारयति - विपर्यय इतीति । तथा च विपर्यय: सादृश्यानपेक्षस्तिको गुड इयत्र भ्रमो यत इति हेतुत्वेन सदुपन्यस्तमिति भावः । असंसर्गाग्रह इति । अगृहीतासंसर्गत्वामेत्यर्थः । संसृष्टाविमाविति । संसृष्टसारूप्येण प्रती-