पृष्ठम्:न्यायलीलावती.djvu/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ व्याथलीलावती त्रापि तस्यारोप्य स्मृत्युपक्षीणत्वात् । न च हस्तिनि मशकारोपा- पत्तिः | आरोग्यव्यावर्तकाग्रहस्याभावात | नीलं शार्वरं तम न्यायलीलावतीकण्ठाभरणम् तदित्यर्थ: । ननु सारूप्यस्यातन्त्रत्वेऽतिप्रसङ्ग इत्यत आह - न चेति । यत्रारोग्यव्यावर्त्तकधर्मग्रहस्त त्रारोपप्रतिबन्धकः स एवति नातिप्र- सक्तिरित्यर्थः । तथा च नानुभूयमानारोप न वा स्मर्थ्यमाणारोपे सा- रूप्यग्रहो हेतुस्तिको गुड इत्यादाच संसर्गाग्रहस्य कथञ्चित् सारूप्य. स्य सत्त्वेऽपि न तज्ज्ञानं तन्त्र स्मर्थ्यमाणारोपेऽव्यागेप्यस्मारकतयै- व तदुपयोग इत्यपि न वाच्यम्, प्रकारान्तरेणापि आरोग्यम्मृतिस "म्भवात्। ननु मसीगुटके माषारोपदर्शनादनुभूयमान रोपेऽपि सा रूप्यं तन्त्रमिति चेन्न, तत्रापि स्वरूपसत एव तस्य तन्त्रत्वात् । यत्र सारूण्यस्मारित रङ्गं तत्र रङ्गानारोपे तद्द्व्यावर्त्तकधग्रह एव तन्त्रं न तु सारूव्यग्रह इति । किञ्च स्वभावे नीलरूपारोपे नीलरूपवदभेदारोपे वा सारूण्याभावात् तद्ग्रहो न कारणमित्या- शयेन तमोवादमवतारयति - नीलं शार्वरं तम इति । सादृश्यानपेक्ष इत्य. नुषज्यते । ननु तिक्तो गुडः पीतः शङ्ख इतिवद् भाव एव क्वचित नी. - न्यायलीलावतीप्रकाशः स्थित्या तस्याऽन्यथासिद्धत्वात् । नाऽप्यरोप्यस्मारकतया अदृष्टादिना संस्कारो द्वोघेऽप्यारोप्योपस्थितेः । न च शुक्तिनिष्टसारूप्येण यत्र रजतं स्मयंते रूपान्तरेण च रङ्गं तत्र शुक्तौ रजतत्वमेवारोष्यते न रङ्गत्वमतस्तत्र सारूप्यं प्रयोजकमिति युक्तं तत्र रङ्गव्यावर्त्तकधर्मग्र. हादेव तदनारोपोपपत्तेः । तदग्रहे च तत्र रङ्गरजतसंशयस्यैव भावा दिति भावः । , नीलं शारं तम इति । सादृश्यानपेक्ष इत्यनुषज्यते । आलोकाभाव- नीलरूपवतोः सारूप्याभावादित्यर्थ: । ननु नीलं तम इत्यनुभूयमा. नारोपः स्मर्यमाणारोपे च सारूप्यं हेतुः । तथा हि यत्र साक्षात्कारि न्यायलीलावती प्रकाशविवृतिः तिर्भवतां संसृष्टत्व विशेषणिकैव स्यादिति भावः । ननु नीलं तम इति । तमसि नीलरोपो (रूपा ?) रोपोऽप्रसिद्ध एव नीलरूपस्यैव तमस्त्वात् । नीलरो (रू?) पारोपश्चानुभूयमानारोप एव ।