पृष्ठम्:न्यायलीलावती.djvu/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ न्यायलीलावती चाक्षुषत्वात् । नानेकद्रव्यद्रव्यगम्, आलोकनिरपेक्षवेदनत्वात् । ततो भूरूपमारोपितं तम इति चेत्, न, विचारासहत्वात् । स हि अनुभूयमानारोपो वा सावित्रतेजसि पित्तपीतिमवत्, स्मर्य- माणारोपो वा नेदीयस्यणीयस्यपि महत्त्ववत्स्यात् | नाद्यः । आ- लोकं विना तदननुभवात् ( १ ) | तुल्यमभावेऽपीति चेत्, न, अभावग्रहेऽपि प्रतिपक्षापेक्षायां तद्द्ब्रहव्याघातात् । रूपे तु तदनपे- क्षाया दोषात् (२) | नेतरो, गगनादेरतीन्द्रियत्वात् | क्षित्यादेरा- न्यायलीलावतीकण्ठाभरणम् चाक्षुषत्वानुपपत्तिरिति भावः । अवयविसमवेतत्वे दोष माह - नानेकेति । अतथारोपितं पार्थिवनीलरूपं तमा न त्वभाव इत्युपसंहरति- -तत इति । स होति । लवणगतपित्तद्रव्यगतः पीतिमा यथा अनुभूयमान एवारोप्य. त इत्यर्थ: । नेदीयसीति । चक्षुर्निकटवर्त्तिनि केशादौ महत्त्वं स्मर्थ्यमाणं यथाऽऽरोप्यत इत्यर्थः । आलोकमिति | अनुभूयमानतैव नीलरूपस्य आलो. कं विना न स्यात् । अतथाऽऽरोप इत्यर्थः । तुल्यमिति | आलोकं विना अ. भावो धम्म नीलरूपं वा कथंभासतामित्यर्थः । अभाति । आलोकाs. भाव एव तमस्तद्ग्रहे च नालोकाऽपेक्षा न हि घटाभावग्रह इत्यर्थः । रूपे विति । रूपं चालोकानपेक्षं न भासत एव किमारोप्यतामित्यर्थः । गगनादेरिति । तथा च कुत्र धम्मिनि स्मर्थ्यमाणं नीलरूपमारोप्यतामि. त्यर्थः | क्षिस्यादेरिति । आरोपविषयस्य स्वरूपयोग्यतायामपि सहका न्यायलीलावतीप्रकाशः - असमवेतद्रव्य समवेतद्रव्य समवेतामत्यर्थः । आलोकेति । आलोकानपे- 'क्षचक्षुर्ग्राह्यत्वादित्यर्थः । भूरूपमिति । पार्थिवं नीलं रूपमित्यर्थ: । 'तद- ननुभवाव' नीलरूपाऽननुभवादित्यर्थः । तुल्यमिति | आलोकभावेऽपि नीलरूपारोपो नालोकं विना स्यादित्यर्थः । तद्ग्रहेति । तथा सत्यालो- काभाव एव न स्याद्यग्रहणे तेजोऽपेक्षा स्यादित्यर्थः । स्मर्थमाणारोप. विषयो नित्योऽनित्यो वा ? आद्ये गगनेति । अन्त्ये क्षित्यादेरिति । आरोग्य. न्यायलीलावतीप्रकाशविवृतिः आलोकानपक्षचक्षुर्ब्राह्यत्वादिति । नम्बसवयोरपि (?) प्रतीतिरूपो व्यवहार ए ( १) तदनुभवात् । ( २ ) यामेव दोषात् |