पृष्ठम्:न्यायलीलावती.djvu/५२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता ४४५ लोकसापेक्षवेदनत्वात् । ततो भावाभाव (१) एवायम् । शुक्लादि- व्यावृत्तिनिवन्धनस्तु नीलादिव्यवहारः सषयोरिव ष ( २ ) व्यवहा रो गौडानाम् | भावत्वेन वेदनमप्यसिद्धमित्यादि तात्पर्यशुद्धा (३) वृदयन:, अथवा प्रतियोगिवाचकावच्छिन्ननञभिलापप्रतिभास- शून्यतया विधिमुखत्वाभिमानात् । एतच्चालोकप्रतियोगिकनिषे धबोधकैरन्धकारतिमिरादिपदैरवच्छिन्नस्य तस्य भासनात् । · . न्यायलीलावतीकण्ठाभरणम् रियोग्यताविरहान्न तद्ग्रहस्तथा च कुत्रारोप इत्यर्थः । तत इति । ते- जोऽभावग्रहे प्रतिपक्षस्यालोकस्य तावन्नापेक्षा नीलव्यवहारस्तु तत्रा न्यथोपपन्न इत्यर्थः । अन्यथोपपत्तिमाह - शुक्लादीति । ननु रूपान्तरव्यव. हार एव तत्र कथं न स्यादत आह-शषयोरिति । यथा वर्णान्तरव्या.. वृत्तिक्कतत्वेन तत्र नियमस्तथा प्रकृतेऽपीत्यर्थः | भावत्वेनेति । विधि- मुखप्रत्ययवेद्यत्वमसिद्ध मित्यर्थः । विधिमुखप्रत्ययवेद्यत्वाभिमानमात्रं प्रकृते न तु परमार्थत एव तथा । अभिमानवीजमाह - अथ वेति । प्रतियोगिवाचकं यत्पदं तत्र नब्रूसमभिव्याहारो नास्ती• त्येतावतैवाऽयमभिमानः । नञभिलापशून्यत्वमेव कथं यद्यभावस्तम इत्यत आह - एतच्चेति । अन्धकारतिमिरादिपदानामालोकाभाव एव सङ्केतितत्वात्तत्र च नञ्समभिव्याहारेऽनन्वयापत्तेरिति भावः । 'अव न्यायलीलावतीप्रकाशः स्मरणेऽव्यारोपविषयाज्ञानादारोपानुपपत्ते रित्यर्थः। एकदेशिमतमाह - शुक्लादीति | नीलादिव्यवहारः शब्दप्रयोगमात्रं न तु प्रतीतिरित्यर्थः । भावत्वेनेति । साधकमानाभावात्तत्र बाधकाच्चेत्यर्थः । अथ वेति । अ त्र नञभिलापशून्यत्वमेव प्रयोजकं प्रतियोगिवा बकेत्यादि त्वभावप्र- न्यायलीलावतीप्रकाशविवृतिः (का?) कारो नास्त्येवातो विशेषयति - शब्दप्रयोगमात्रमिति | भावत्वेनेतीति । यद्यपि विशब्दस्य निषेधार्थतया नअर्थकपदाभिलापशून्यत्वमसिद्धं तथापि नञभिलापशुन्यत्वमेव विवक्षितमन्यथा तिमिरादिपदस्यापि नञर्थकतया प्रकृतेऽप्यसिद्धापत्तेस्तद्याप्त्येवेति भावः । वस्तुतो वि. ( १ ) ततोऽभाव ए० | ( २ ) शषयोरिव स । ( ३ ) ०र्थ्यपरिशुद्धावु० ।