पृष्ठम्:न्यायलीलावती.djvu/५२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सघिवृतिप्रकाशोद्भासिता ४४७ वमतीतिः | दोपवशादिन्द्रियविषयेषु इन्द्रियाणां प्रतीतचरसह- कारिनिरपेक्षतादर्शनात् । भवति हि कामातुरस्य कामिनीसाक्षा- स्कारे सन्निकर्षाऽनपेक्षा आलोकाऽनपेक्षेव परेषाम् | न च दोषाभा- वः | तेजोऽभावस्य सकलस्वप्रतिपक्षनिवृत्ति साहचर्यस्यैव दोष त्वात् । अत एव दिवा तुहिनकरकरप्रसाराभावेऽपि न नीलारोपः । न्यायलीलावतीकण्ठाभरणम् - प्रतियोगिस्मरणमन्तरेण तत्प्रतीतिनं स्यादित्यत आह - दोषवशादिति । प्रतियोगिस्मरणमन्तरेणापि दोषान्तमः प्रतीतिः । दोषश्च विषय एवा. त्रेति भावः । एतच्चाभ्युपगमवादः, परन्तु प्रतियोगिज्ञान कथश्चत्तत्रा. व्यस्त्येव । इन्द्रियदोषात सहकारिनैरपेक्ष्ये दृष्टान्तमाह - भवतीति । ही ति । कामिनीसाक्षात्कारे सन्निकर्षापेक्षायामपि ध्याने यथा तदन. पेक्षेत्यर्थः । किञ्च परेषामारोपितं भूरूपमेव तम इतिवादिनां यथा रू. पारोपेऽन्यत्र पीतः शङ्ख इत्यादावालोकानपेक्षा तथा नीलरूपारोपा. त्तमःप्रत्यये दोषप्राधान्यान्न तहपेक्षेति दृष्टान्तत्वम् । यावत्तेजःसंस र्गाभाव एच प्रकृते दोष इत्याह -सकलेति । अत एवेति । यतो न तत्र न्यायलीलावतीप्रकाशः । श्यानपेक्षाया उक्तत्वादिति भावः । 'प्रतिपक्षः' प्रतियोगी | अस्माक मालोकाऽनपेक्षा परेषां सन्निकर्षाऽनपेक्षेवेति योजना | तेजोऽभावस्येति । उद्भूतरूपयावत्तेजः संसर्गाभावस्य विषयस्यैव दोषत्वादित्यर्थः । अत एव सर्वसाधारणी भ्रान्तिरिति भावः। 'तदारोपो' नीलरूपारोपः। दोषेति । दोषस्वभावविशेषादेवाऽभावविशेषे आरापोऽधिगतनील एव न्यायलीलावती प्रकाशविवृतिः दृश्यमपि सम्भवत्येवेत्यवधेयम् । प्रतिपक्षाप्रतीतिरिति मूलम् । अत्रालोका. भाव इत्येवार्थोऽप्रतीतिस्तु साधकतयोक्ता । तेनाssलोकाऽनपेक्षेत्यग्रेत नेनाविरोधः । उष्णादिरूपस्य तेजसो विद्यमानत्वादाह - उद्भूतेति । पर प्रकाशकेत्यर्थोऽन्यथा सुवर्णादिसत्त्वेनासम्भवतादवस्थ्यात् । अनधिगत• नीलभावस्य तदारोपो बेति मूलं सुगममेव । यदि तु तदानारोप इति पाठ स्तदा न चेति पूर्वत्रान्वयीत्येक एवार्थः । महाप्रलयस्य व्यवहारा धिकरणत्वं प्रतीयत इति विरोधमाशङ्ख्याह-आरोपेति । व्यवहारपदेन