पृष्ठम्:न्यायलीलावती.djvu/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती न चाभावमात्रे तदारोपः । अनवगत (१) नीलभावस्या (२) तद. नारोपो वा दोषवैचित्र्या देवाधिष्ठान नियमोपपत्तेः । वंशोरगभ्र मवत् । न चाssलोकाऽनपेक्षा दोषः । अभावग्रहे प्रतिपक्षापेक्षाया- मभावग्रहणप्रसङ्गात् (३) । न चाभावे भावधर्माऽनारोपः । दुःख- संयोगाभावादौ सुखविभागादिव्यवहारदर्शनात् । महाप्रलये च न्यायलीलावतकण्ठाभरणम् यावत्तेज संसर्गाभाव इत्यर्थः । एवं सति घटाभावादावपि नील. रूपारोप: स्यानीलाननुभवदशायां च तदनारोप: स्यादित्याशङ्ख्याह- न चेति । प्रथमे देश्ये दोषमाहात्म्यं द्वितीये त्वाभिप्रायिकं स्मर्थ्यमाणा- रोपत्वं समाधानम् । प्रथमदेश्ये दृष्टान्तमाह-वंशेति । यथा मण्डूकव साक्तनयनस्य वंश एवोरगभ्रमो नान्यत्रेत्यर्थः । 'आलोकानपेक्षा' आ लोकासमवधानम् | अभावग्रहे प्रतियोगिसमवधानं विरुद्धमेवेत्याह- अभावग्रह इति । दुखःसंयोगाभावादाविति । दुःखाभाव सुखारोपः सं. योगाभावे विभागारोप: । महाप्रलय इति | विषयसप्तमी पूर्वदेशदर्शने सत्युत्तर देशदर्शनं देवदत्तादौ गतिमति यत्तदिहाव्यस्तीति अत्रापि न्यायलीलावतीप्रकाशः चारोपयतीत्यर्थः । अधिष्ठाननिय मेत्युपलक्षणम्, अधिगतनीलनियमे. त्यपि द्रष्टव्यम् । वंशति । मण्डूकवसाक्तनेत्रस्य यथा वंश एवोरगभ्रम इत्यर्थः । अभावग्रह इति । पूर्वमन्यमतमाश्रित्येदानीं स्वमतमाश्रित्या मिधानमित्यपौनरुक्त्यम् । दुःखसंयोगेति । न चात्मन्येव सुखारोपो नष्ट. संयोगद्रव्यद्वय एव च विभागारोपो न त्वभाव इति वाच्यम्, इदा. नीमुत्पन्नं सुखं भारापगमादिति प्रत्ययादिदानीमुत्पन्ने सुखत्वारोपो दुःखाभाव एव च तथेत्यर्थात् दुःखरहिता वयमिति तद्विवरणाच्च । एवं च विभागत्वारोपोऽपि तादृशसंयोगाभाव एवेति भावः । महाप्रलये चे- ति । आरोपाधिकरणत्वे सप्तमी प्रलये चाभावे यथा महत्त्वारोप इत्य र्थः । विभिन्नदेशत्यादिनोत्पाद इत्यन्तेन कारणकथनं पूर्वनाशे सती. न्यायलीलावतीप्रकाश विवृतिः च करणव्युत्पत्या ज्ञानमुक्तमिति भावः । पौनरुक्त्यभयादाह - विभिन्न दे. (१) अनधिगतनी० । ( २ ) ०भावस्य तदना० । ( ३ ) वणव्याघातात् ।