पृष्ठम्:न्यायलीलावती.djvu/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४४९ महत्त्वव्यवहारदर्शनात् । चलनारोपश्च विभिन्न देश (१) वर्त्तिनोर- भावयोरुत्पादे पूर्वनाशे सति उत्तरजन्मनि पूर्वदेशादर्शने सत्यु- त्तरदेशदर्शनात् । स्मृतिविपर्ययपक्षस्त्वसम्भावित एव । जाग्रतां तदनुपपत्तौ छायादिव्यवहारविलयात् । अन्यथा विश्वप्रकाश प्रत्ययस्यास्तमयत्वप्रसङ्गात् । अवश्यं चैवम् (२) । अन्यथा तमः- - न्यायलोलावतीकण्ठाभरणम् गतिव्याहारस्तदेव कथमत्रेत्यत आह - विभिन्न देशयोरिति । अबाधकद्र- व्ये सर्पति पूर्व्वस्य तेजसो नाशे उत्तरस्य तेजस उत्पादि विभिन्न दे शयोस्ते जांध्वसयोरूत्पादे पूर्वदेशेऽदर्शनमुत्तरदेशे दर्शनं गतिव्यव- बहारहतारस्यर्थः । स्मृतिवियर्थ्यर्यास्त्वति । स्वप्नज्ञाने परेषां स्मृतिविपर्थ्य. यसंज्ञा | असम्भावनायां हेतुमाह - जाप्रतामिति । अन्यथेति । जाग्रद्दे शाज्ञानस्यास्वप्नत्व विश्वेषां स्वप्नत्वमेव स्यादित्यर्थः । अवश्यं चैवमिति । आरोपितनील रूपोऽभावस्तम इत्यवश्यमित्यर्थः । अन्यथेति । यद्यारोपि न्यायलीलावतीप्रकाशः ति प्रकारकथनम् । 'पूर्वनाशे' आलोकप्रागभावनाशे । आलोकस्यो- त्पाद इति यावत । 'उत्तरजन्मनि' उत्तरदेशेऽभावजन्मनीत्यर्थः । पूर्वदेशेति । पूर्वदेश आलोकाभावादर्शने सत्युत्तरदेशे आलोकाभावदर्श- नादित्यर्थ: । 'स्मृतिविपर्ययो' निद्राजन्यो ज्ञानविशेष इत्यर्थ: । 'विल. यात्' विलयापत्तेरित्यर्थः । ननु निद्राजन्य एव तदनुभव इत्यत आह - अन्यथेति । एवं सति जाग्रद्धटानुभवोऽपि निद्राजन्यः स्यादित्यर्थः । न्यायलीलावतीप्रकाशविवृतिः शेत्यादिनेति । कारणेति । अग्रे वक्ष्यमाणयोरालोकाभावादर्शनादर्शन- योरिति भावः । तथा चाभावयोरिति मूलस्यालोकप्रागभावालोकयोर्याव भावी आलोकतद्ध्वंसात्मकौ तयोरित्यर्थ इति भावः । प्रकारकथनमि ति । कुत्र कस्योत्पाद इति विशेषजिशासायां सामान्योक्तस्यैव प्रका. रकथनमतो न पौनरुक्त्यमिति भावः । एवञ्च पूर्वनाश इति मूलस्य पूर्वत्र नाश इत्यर्थ: । 'अभावजन्मनि' आलोकाभावजन्मनीत्यर्थः । ( १ ) ० नदिग्वर्त्ति० । • नदेशयोर० । ( २ ) ०श्यं चतदेवम्० ।