पृष्ठम्:न्यायलीलावती.djvu/५२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती सामानाधिकरण्यमतीतरनुपपत्तेः | हि गीलं रूपं समस्तीप तथाभावं वा तमः | अतिसङ्गात् । किं त्वालोकमात्राभाव ए- वेति । विपर्यय: (१) । ४५० न्यायलीलावतीकण्ठाभरणम् तं रूपमेव तमः स्यादित्यर्थः । दूषणान्तरमाह-न हीति | नीलीवस्त्र. चर्मकम्बलादावपि तमःप्रत्यय प्रसङ्ग इत्यर्थः । उपसंहरति-किन्त्विति । चाक्षुषसाक्षात्कारकारणयावत्तेज ( स ? )श्च संसर्गाभावस्तमः | कि· श्चित्तादृशतेजः समवधाने तु स एवान्धतमलम् । अत्यन्तासाचप्र ध्वंसात्मकसमुदायस्य किञ्चित्समुदायविरहप्रयुक्तः फादाचित. कव्यवहारो धान्यादिराशाविव । पनसादौ किंस्विदिदमिति ज्ञानमसाधारणधर्म्मजन्यमनध्यव. सायः । स च वैशेषिकमते संशयाद् भिन्नः । तद्विषयं विवेक्तुं विक न्यायलीलावतीप्रकाशः एवम् आरोपितनील आलांकाभावस्तम इत्यर्थः । सामानाधिकरण्येति । यदि नीलं रूपमारोपितं तमः स्यात् तमो नीलामति प्रतीतिर्न स्यात् नीलस्यैव तमस्त्वादित्यर्थः । न हाति । यादे नीलरूपमात्रं यदि चारो. पितनीलं वस्त्वन्तरं तमस्तदाऽऽलोके सत्यपि नीलीरक्तवस्त्रादिष्वपि तमः प्रतीतिः स्यादित्यर्थः । किन्विति । चाक्षुषसाक्षात्कारकारणया. वत्तेजः संसर्गाभावोऽन्धतमसं किञ्चिद्वाह्यालोकसम्बलनेन तु तारत. न्यायलीलावती प्रकाशविवृतिः अभिमतं सारूप्पमाह - आरोपितनीलमिति । आरोपितनीलवस्तुमात्रमि. त्यर्थः । आलोकाभाव इति मूले आलोकशब्दस्य किञ्चित्परत्वे अतिप्रस ङ्गो यावत्परत्वे चासम्भव इत्यरुचेराह - चाक्षुषेति । अत्र कारणान्तं प्र त्यक्षरूपवत्परमतो न चक्षुःसुवर्णादिकमादायातिव्याप्तिः । द्रव्यव चिश्चायमन्धकार इति रूपादौ दिवापि तत्सत्त्वमादाय नातिव्याप्तिः । अवतमसलक्षणमाह - किञ्चिदिति | वाह्यत्वं योग्यरूपवत्वमतो न चक्षु. रादिकमादायान्धतमसातिव्याप्तिः । तारतम्यमुत्कर्षापकृर्षो । तौ चा लोकासम्बलनतत्सम्बलने एव । ननु दिनेऽप्यतिव्याप्तिः, तदापि पूर्वा ( १ ) इति वि० ।