पृष्ठम्:न्यायलीलावती.djvu/५३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ल्यायलीलावतीकण्ठाभरण-सचिवृतिप्रकाशोन्द्भासिता ४५५ व अनादित्वेन पुढचरमावस्यानियाम कत्वात् । अव्यभिचारित्वस्य च स्वप्नेऽप्यप्रतिक्षेपात् । वाधात् तत्प्रतिक्षेप इति चेत् न, बाधस्यैवासिद्धेः । जाग्रदवस्थायां स जातीय प्रबन्धसंवादात् स्वप्नस्य काकतालीयसंवादादिति चेत्, न, काकतालीयसंवादवतोऽपि चिरदृष्ट (१) पुनदर्शनादेरव्यभिचा रात् । प्रबन्धसंवाद वदोऽपि दीपैकत्वनिर्भासादेर्व्याभिचारात् । अर्थ - i न्यायलीलावतीकण्ठाभरणम् - ग्रदनुभवेन बाध्यत इत्यत आह - अनादित्व इति । अव्यभिचारी जा. प्रत्प्रत्यय: स्वप्नबाधकः स्यादित्यत आह - अव्यभिचारित्वस्येति । स्वप्न. ज्ञानानां बाधितत्वेनाव्यभिचारित्वमसिद्धमित्याह - बाघादिति । बाधि. तत्त्वप्रकाराणां दूषितत्वात्तदसिद्धरित्याह – नेति । संवादभूयस्त्वालप स्वाभ्यां विशेष इति शङ्कते - जाप्रदिति । संवादा भूयस्त्वेऽव्यव्यभिचारि• त्वं दृष्टमित्याह – काकतालीयेति । संवादभूयस्त्वेऽपि व्यभिचारमाह- प्रबन्धेति । जाग्रदिति वैपरीत्यमेवाह -- एकत्वेति । एक एवायं दीप इति प्रत्यभिज्ञाभूयस्त्वेऽपि व्यभिचारादित्यर्थः । जाग्रहशादृष्टेऽर्थक्रियासं• वादो यथा न तथा स्वप्न इत्याह - अर्थक्रियेति । स्वप्नेऽपि तदस्तीत्याह- न्यायलीलावतीप्रकाशः 'न विशेष्यते' न व्यावर्त्तकरूपवदित्यर्थः । उभयत्रेति | स्वप्नज्ञान स्यापि जाग्रदवस्थाज्ञानोपदर्शितार्थविपरीतार्थोपदर्शकत्वादित्यर्थः । ननु पूर्व ज्ञानं बाध्यमुत्तरं ज्ञांन बाधकमित्यत आह–अनादित्वेनेति । अव्यभिचारित्वमपि साधारणत्वान्न नियामकमित्याह-अव्यभिचारि त्वस्येति । भावाभावाभ्यामित्यनेन स्वप्नजागरात्मकमित्यत्र यथायोग्य. न्यायलीलावतीप्रकाशविवृतिः हिर्भावापत्तेरिति । साध्याविशेषमाशङ्कयाह- इन व्यावर्त्तकेति । सव्येत्तरे. ति मूलं सामान्य व्यायभिप्रायकमन्यथा सव्येतरपदव्यर्थतापत्तेः । जाप्रदवस्थाया इत्यादिमूले पञ्चमीद्वयम् । असिद्धेरित्यसिद्धमिति साध्यान्वयेन योजनीयम् । मिथ्याप्रत्ययप्रवाह इति मूलेन दूषितस्यापि ( १ ) चिरादृष्ट० ।