पृष्ठम्:न्यायलीलावती.djvu/५३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती क्रिया संवाद विसंवाद र्जागरणस्वमलक्षणमिति चेत्, न, स्वमप रिदृष्टजलादेरपि पानावगाहनाद्यर्थक्रियादर्शनात् जाग्नदवस्थायां सदनुपलम्भेन बाधात् तासायर्थक्रियाणामसम्बद्ध (१) मिति चेत्, म, प्रबुद्धदृष्टार्थक्रिया चक्रस्यापि स्वप्ने विपर्यासोपलम्भाव | मिथ्या. प्रत्ययमवाहः स्वप्नः, तद्विपरीतप्रत्ययस्तु जागरणमिति चेत्, न, मिथ्याप्रत्ययप्रवाहस्यापि पतिशङ्खगोचरस्य जागरणत्वात् । प्रचुर तरमिथ्या प्रत्ययप्रवाहः स्वप्नो भूरियथार्थप्रत्ययप्रवाहो जागरण- मिति चेत्, न, उन्मादाद्यजित (२) प्रचुरतर विपर्ययप्रत्ययप्रवाहस्या- पि जागरत्वात् । बहिरिन्द्रिय प्रवृत्तिभावाभावाभ्यामर्जित ज्ञाने स्वप्नजागरात्मकमिति चेत्, न, योगिनां ध्यानसम्ततेरपि स्वप्नत्व प्रसङ्गात् । सिद्धोपप्लुतान्तःकरणजं ज्ञानं स्वप्नोऽन्यच जागरणमि. ति चेत्, का सिद्धा(३) । निरिन्द्रियप्रदेशे मनसोऽवस्थानम् । कुत- न्यायलीलावतीकण्ठाभरणम् स्वप्नेति | स्वप्नदृष्टार्थक्रियापि जाग्रदवस्थाबाध्येत्याह- प्रबुद्धेति । मिथ्या- त्वसत्यत्वाभ्यां तयोर्भेद् शङ्कते — मिथ्येति । मिथ्यात्वस्य जागरेऽपि ग तत्वेन व्यभिचारमाह - नेति । मिथ्यात्वं स्वप्नस्य जागराद् भेदकं प्रचु. रत्वेन विशिनष्टि-प्रचुरेति । प्रचुरत्वविशेषितमपि व्यभिचारीत्याह-- तन्मात्रेति । बहिरिन्द्रियजन्यत्वं जाग्रत्प्रत्ययात् स्वप्नस्य भेदकमित्या. ह - बहिरति । तत्रापि व्यभिचारमाह - नेति । बहिरिन्द्रियानवच्छिन्ना. धारप्रदेशवर्त्तमानेन मनसा जनितत्वं स्वप्नस्य भेदकं शङ्कते- सिद्धति । 'उपप्लवो' बहिरिन्द्रियासमवधानम् । इदमपि न भेदक इ (मि ?) त्यनुश. येनापृच्छति -- केति । एवं तर्हि स्वप्नज्ञानधाराया अवच्छेदात सुषुप्तिः कदापि न स्यादित्याशयेन पृच्छति - कुत इति । सिद्धान्ती सुषुतिमुप न्यायलीलावतीप्रकाशः - मित्यन्वयः। कुतस्तहीति | निरिन्द्रियप्रदेशस्थितस्यापि मनसो ज्ञानजन न्यायलीलावतीप्रकाशविवृतिः पुनराशय दूषणान्तरदानायेत्यवधेयम् । निरिन्द्रियेति । तथा च ज्ञाना. ( १ ) मसत्यत्वमि० । (२) तन्मदाघादितम] | तन्मात्रेति कण्ठाभरणधृतः पाठः । ( ३ ) की सिद्धिः ।