पृष्ठम्:न्यायलीलावती.djvu/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८ म्यायलालावती न्तो जागरितं नान्य इति चेत्, न, कचित्स्वप्नंऽपि पूर्वजाग्र त्प्रत्ययप्रवाहो मिथ्येति प्रबन्धबाधक प्रत्ययस्यादिभूतस्य सत्वा- त् । तदन्तर्भूतस्य जाग्रद्विज्ञप्तिसन्तानस्य च स्वापानन्तरवर्त्तिना स्वमज्ञानेन ( 2 ) सर्व एव जाग्रत्प्रत्ययो मिथ्येति बाध्यमानत्वात् । ततो भेदलक्षणाभावान विशिष्यते जाग्रत्स्वमज्ञानमिति (२) । अत्रोच्यते । किं प्रमाणत्वेनाविशेषः स्वप्नप्रबोधयोरुत (३) अप्रमाणत्वेन उत स्वनजागरत्वाभ्याम् (४) । नाद्यः । सवर्जन- सिद्धस्व मप्रबोधभेदप्रत्यस्यस्यापि जागरत्वेन प्रमाणत्वाद्धेतो. न्यायलोलावतीकण्ठाभरणम् स्वप्नेऽपीति । तदन्तर्भूतस्येति । तयोः स्वप्नप्रबन्धयोरन्तर्भूतस्य जागर. ज्ञानसन्तानस्येत्यर्थः । एतदेव दर्शयति - स्वापानन्तरेति | स्वप्नप्रत्ययः प्रमा प्रत्ययत्वात् जागरप्रत्ययवदिति विवक्षितम् । जागरप्रत्ययो उदयप्रमा प्रत्ययत्वात् स्वप्न प्रत्ययवदिति वा । स्वप्नत्वजागरत्वे न भिन्ने तुल्यव्यक्तिकत्वात् । तत्राद्यं दूषयति - सर्वजनेति। स्वप्नप्रत्ययो न प्रमाणं जागरप्रत्ययस्तु प्रमाणमिति वह्नरौष्ण्यवत् स्वप्नस्याप्रा. माण्यं सर्वजनीन मिति तस्य प्रामाण्यसाधने बाध इत्यर्थः । द्विती न्यायलीलावतीप्रकाशः बाधकमादिर्यस्य स प्रबन्धबाघकादिर्वाध्यः स्वप्नलक्षण: प्रबन्धो य स्यान्तेऽसौ बाध्यप्रबन्धान्तः स्वप्नज्ञानस्य बाध्यप्रबन्धान्तत्वमाह - तदन्तर्भूतेति । तयोर्मध्यपतितस्य जाग्रद्विशप्तिसन्तानस्येत्यर्थः । सर्वज. नेति | स्वप्नप्रत्ययो मिथ्यात्वेन जागरप्रत्ययात् प्रमाभूताद्भिन्न इत्या- कारस्यापि जागरप्रत्ययस्य प्रमाणत्वात्तत एवाभेदग्राहकहेतुबाधा. दित्यर्थः । ननु स्वप्नजागरयोनभेद: साध्यते किन्तु तयोर्भेदसाधक- स्य न साधकत्वमिति ब्रूमः । अत्राहुः । प्रमाणाप्रमाणविभागं विना न्यायलीलावतीप्रकाश विवृतिः रेऽप्यसिद्ध इति भावः । नाभेद इति । येनोक्तबाधः स्यादिति भावः । स्वप्नत्वजागरत्वयोरसाधारणधर्मयोरनुभवसिद्धत्वादन्यथा व्याचष्टे- (१) स्वापानन्तरस्वप्नवर्त्तिना ज्ञानेन । (३) ० धज्ञानयोरु० | ० प्नप्रवोधाभ्यामु० । ( २ ) जायत्प्रत्ययात् स्वप्नज्ञानमिति | ( ४ ) स्वप्नत्वजामत्त्वाभ्याम् |