पृष्ठम्:न्यायलीलावती.djvu/५३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४५९ धात् । न द्वितीयः | अविशेषप्रत्ययस्यैवाप्रामाण्ये विशेषनिषेध- व्याघातात् । न तृतीयः । अनुभववाधितत्वात् | मिथ्याऽयमनुभव इति चेत्, न, अनुभवमिथ्यात्वग्राहकं ज्ञानं सत्यं मिथ्या वा । मिथ्या चेद्भेदानुभवः सत्य इति हेतोर्वाधः । सत्यं चेत्तदेवासत्यप्रत्य- यान्न ( १ ) भिद्यते सत्यं चेत्यनेकान्तः । बाधितत्वाबाधितत्वाभ्यां विशेष इति चेत्, तुल्यं स्वप्नजागोधयोरपि । कथं तर्हि स्व- प्रजाग्रद्रोधयोर्भेदव्यवहृतिः । विनापि लक्षणभेदमनुभवसिद्ध- त्वात्सुखदुःखवत् । तत्रानुकूलप्रतिकूलवेद्यत्वं (२) लक्षणमिति चेत्, न सुखदुःखातिरिक्तयोरनुकूलप्रतिकूलयोरसिद्धेः । इष्ट त्वमनुकूलत्वमिति चें, न, इच्छाया एव (३) लक्षणभेदा सिद्धेः । न्यायलीलावतीकण्ठाभरणम् - ये त्वाह — अविशेषेति । जागरप्रत्ययेषु स्वप्नप्रत्ययादप्रामाण्येनावि• शेषे साध्ये या अनुमितिः स्यात् सापि जागरप्रत्ययत्वेनाप्रमैव स्था दिति जागरप्रत्यये यो विशेषः प्रामाण्यं तन्निषेधे व्याघात इत्यर्थः । अनुभवबाधितत्वादिति । सर्व्वजनस्य तदुभयभेदानुभवेन बाधितत्वादि त्यर्थः । अयमिति | भेदानुभव इत्यर्थः । अनुभवेति । जागमि स्वपिमी. तिभेदानुभवमिथ्यात्वग्राहकं ज्ञानमित्यर्थः | हेतेोरिति । सर्वप्रत्यये मि थ्यात्वसाधकस्य हेतोरित्यर्थः । सत्यं चेदिति । तत्रैव प्रत्ययत्वमनैका- न्तिकमित्यर्थः । ननु स्वप्नज (गरप्रत्य (य) योर्मेंदानुभवो बाधित इति तन्मिथ्यात्वग्राहकं ज्ञानमवाधितत्वात् सत्यमेवेति शङ्कते - बाधितेति । कथं तहीति । केन लक्षणेनेत्यर्थः | भेदकलक्षणस्याप्यनिर्बंचना दिति भावः । लक्षणे सत्यपि जल्पवितण्डे आश्रित्याविनापीति | इच्छाया न्यायलीलावतीप्रकाशः - - व्याघातात्तस्याऽवश्य वाच्यतया जागरप्रत्ययस्यैव प्रमात्वं लोकसि द्धमुपेयामित्येवम्परोऽयं ग्रन्थः विशेषनिषेधः स्वप्नजानत्प्रत्यययो विशेषो मास्तीत्येवमाकार इत्यर्थः । अनुभवेति । इदानीमहं जागर्मि न स्वपिमीत्यनुभवाजा गरत्व स्वप्नत्वयोमैदाकलनादित्यर्थः । कथं त- हीति । व्यावर्त्तकधर्मशानाभावा दुव्यावृत्चबुद्धेरनुपपत्तेरिति भावः । ( १ ) ० चेत् तत एवास० । ( २ ) अनुकूलप्रति० । (१) इच्छाया एकल● ।